2023-07-15 11:45:10 by ambuda-bot

This page has not been fully proofread.

152
 
सदसि कात्कृत: ' । केचित् साक्षात्प्रभृतिषु (1-4-74) पाठम-
भ्युपगत्य कृञो योगे विभाषा गतिसंज्ञामस्याहु: । तदानीम्, 'सा-
क्षात्प्रभृतिषु व्यर्थवचनम् (वा. 1-4-71) इति वचनादभूततद्भावरूपो
प्यर्थोऽत्र बोध्यः । येषां साक्षात्प्रभृतिगणो नियतगण इति मतम्
- तेष
' अनुकरणं चानितिपरम्' (1-4-62) इत्यनेन क्रियायोगे गतिसंज्ञायाम्,
समासे कात्कृत्येत्यादीनां साधुत्वम्, 'खाट्कृत्य' इत्यादिवत् बोध्यम ।
वस्तुतस्तु साक्षादादिराकृतिगण इत्येव न्याय्यम् । विस्तरस्तु बृहच्छन्देन्दुशेखरे
 
-
 
द्रष्टव्यः ।
 
कामम्
 
(298)
" कामम् " (कृ.)
 
स्वाच्छन्द्यानिच्छाङ्गीकारपर्याप्तिप्रकामासूयाऽनुगमनादिष्वर्येषु अव्यय-
मिदम् । कमुधातोर्णिङन्तात् णमुलि रूपमेवम् अस्य च चादिपु पाठादव्य-
यत्वम् । स्वाच्छन्द्ये — कामं चरति । अभिच्छाङ्गीकारे-- 'कामं क्षाम्यतु
यः क्षमी' (माघे 2-43) । एतदेवानुमतिरित्यपि क्वचिद्रुच्यते । पर्याप्तौ-
'महाभागः कामं नरपतिर भिन्नस्थितिरसौ-' (शाकुन्तले 410 ) । प्रकामार्थे
कामं प्रत्यादिष्टां-' (शाकुन्तले 5-31 ) 1 असूयायाम् – 'त्व कामं
व्रजसि क्षितीशसविवे – अनुगमनेऽप्येवमुदाहार्यम् ।
 
6
 
-
 
पुनरित्यर्थेऽपि दृश्यते । तद् यथा –'एको दाशरथि: कामं
 
यातुधानाः सहस्रशः ।' ( रघुवंशे 12-45 ) इति ।