2023-07-15 11:45:10 by ambuda-bot

This page has not been fully proofread.

150
 
कर्हि
 
कम्बः, कम्भः, कंयुः, कन्तिः, कन्तुः, कन्तः, कॅथ्यः, इत्यादिषु
अस्य, उदकम् – सुखं वा यथासम्भवमर्थ इति बोध्यम् । अत्र सर्वत्र,
'कम्शम्भ्यां बभयुस्तितुतयस:' (5-2-138) इति मत्वर्थे ब भ इत्यादयः
 
प्रत्ययाः ।
 
(293)
 
कमुल" (कृ.)
 
एतदन्तमव्ययं स्यात् ।
 
'अग्नि वै देवा अपलुगं नाशक्नुवन्' ।
अत्र अपपूर्वस्य लुलधातोः, 'शकि णमुदकमुलौ, (3-4-12) इति
कमुल्प्रत्ययः । तुमुनर्थकोऽयं प्रत्ययः छन्दस्येव । अपलोतुमित्यर्थः ।
मान्तकृत्वाद व्ययत्वम् ।
 
(294)
" कर्हि " (त.)
 
कस्मिन् काले इत्यर्थे, 'अनद्यतने हिलन्यतरस्याम्' (5-3-21) इति
किम्शब्दात हिलूप्रत्ययः । अस्य प्रत्ययस्य विभक्तिसंज्ञकत्वात् प्रकृतेः
कादेश: । लकार: स्वरार्थ: । 'कर्हिखित् तदिन्द्र यन्नभिः - (ऋक्.
..
6-35-2 ) । प्रायशोऽयं छान्दसः । तेन लोकेऽपि प्रयोगो बहुल लक्ष्यते ।
 
6
 
कर्हि च चिच इति समासे कर्हिचित् इत्यपि, 'जातु, कदाचित् '
इत्याद्यर्थेषु समुदितं प्रयुज्यते । 'यत् तीर्थबुद्धिः सलिले न कर्हि चित्—'।
एवं कर्हिखित इत्यपि योग्यम् । अल कर्हि + चित् इत्यायाकारेग भिन्न
पदद्वयमित्याश्रयणमेव वरम्, पदपाठाचनुसारात् । मुग्धबोधायनुसारे-
जैकपद पदपाठविरोवः स्फुटः ।