2023-07-15 11:45:10 by ambuda-bot

This page has not been fully proofread.

148
 
का
 
(289)
 
'कद्" (चा.)
 
हर्ष- किंशब्दार्थादिषु चादिरय निपातः ।
 
प्रचेतसे ...' (ऋक्. 1-43-1 ) । किंशब्दार्थे – न
 
कद्र....' (ऋक्. 10-4)।
 
हर्पे- 'कद् रुद्राय
 
यत् पुरा चक्रम
 
(290)
"कध्ये " (कृ.)
 
एतदन्तमव्ययसंज्ञकं ज्ञेयम्। 'इन्द्राग्नी आहुवध्यै' (ऋक् 6-61-13)।
अत्र छन्दसि हुधातोः कध्यैप्रत्ययस्तुमुनर्थे 'तुमर्थे से–' (3-4-9) इत्यनेन
विहितः । एजन्तकृत्प्रत्ययत्वादेतदन्तस्य, 'कृन्मेजन्त: ' (1-1-39)
इत्यव्ययसंज्ञा । 'अव्ययकृतो मात्रे, इति भाप्येष्ट्या भावार्थकोंऽय प्रत्यय
इत्यपि ज्ञेयम् ।
 
एवम् ' कध्यैन्' इति प्रत्ययान्तमपि अव्ययसंज्ञक बोध्यम् । स्वरं
विशेषः । श्रियध्ये " इत्यल कध्यैन्प्रत्ययः । प्रत्ययस्य कित्त्वादियङा-
देश इति बोध्यम् । अयमपि छान्दस एव प्रत्ययः ।
 
(291)
 
कदा" (त.)
 
'कस्मिन् काले' इत्यर्थे 'सर्वैकान्यकियत्तदः काले दा' ( 5-3-15)
इति किंशब्दात् सप्तम्यर्थे त्रलपवादो दाप्रत्ययः । अस्य च प्रत्ययस्य