2023-07-15 11:45:08 by ambuda-bot

This page has not been fully proofread.

144
 
-
 
(शिशुपालवधे – 1-75 ) । अनुज्ञायाम् – 'अग्नौ करवाणि ओं तथा कुरु' ।
अन्ते — ' ....ब्रह्म भूर्भुवस्सुवरोम् । ब्रह्मणि—'ओं तत् सदिति निर्देशो
ब्रह्मणस्त्रिविधः स्मृतः ।' (गीता – 17 - 23 ) । अत्र ब्रह्म — वेदः, प्रणवः,
परमात्मा वा प्रकरणानुरोधेन बोध्यम् । तूष्णींभावे 'कद ओं कुरु ।
मङ्गलार्थकत्यमध्यस्याहुः 'ओंङ्कारश्चाथशब्दश्र द्वावेतौ ब्रह्मणः पुरा । कण्टं
भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ ॥ इति स्मरणात् । मङ्गलं तु
नास्याव्ययस्य साक्षाद् वाच्यार्थ; किं तु ओंकारश्रवणेन मृदङ्गध्वनिवत्
मङ्गलंसाधनं भवति । अपाकरणमध्यस्यार्थ इति वाङ्मयार्णवे प्रतिपादितम् ।
 
9
 
66
 
(280)
 
ओपम् " (नि.)
 
6
 
तीव्रम्, शीघ्रम्' इत्याद्यर्थेषु छान्दसोऽयं निपातः । 'ओषम् इत्
 
पृथिवीमहं जङ्घनानीह वेह वा ।' (ऋकू. 10-119.10 ) ।
 
(281)
 
" औ " (नि.)
 
आह्वान सम्बोधनविरोधनिर्णयादिषु निपातोऽयम् । आह्वानसम्बोधन-
योर्विभिन्नार्थकत्वं सन्दर्भवशादुन्नेयम् । मन्त्रस्तोभवचनेष्वपि औकार अव्यय-
त्वेन दृश्यते ।