2023-07-15 11:45:08 by ambuda-bot

This page has not been fully proofread.

ओम्
 
143
 
जकोशौ परारि सन्दर्शितसन्निवेशी । इहैपमन्तालफलोपमानौ स्तनौ कियन्तौ
परतो भवेताम् ॥' 'ऐषमस्व्यम्- ऐपमस्तनम् ।
 
(278)
 
"ओ" (नि.)
 
आह्वानस्मरणानुकम्पादिष्वर्येषु निपातोऽयम् । 'ओ श्रावय' इत्या-
मन्त्रणरूपे आहाने ।
 
66
 
(279)
 
ओम् " (चा.)
 
•प्रारम्भाङ्गीकारानुज्ञाऽन्तब्रह्मतूष्णीम्भावादिष्वर्येषु चादिषु पठयते। अव-
धातो: 'अवतेष्टिलोपश्च' (उणादिः 1-141) इति मन्प्रत्यये टिलोपे, 'उबर-
त्वरत्रिव्य विमवामुपधायाश्च' (6-4-20) इति उपधावकारयोरूठ सवर्णदीर्घे
गुणे च रूपमेवम् अस्य च परिनिष्पन्नस्य चादिपु पाठादव्ययत्वमिति सर्वे
वदन्ति । वस्तुतस्तु व्युत्पत्तिपक्षेऽस्यौणादिक मन्प्रत्ययान्तत्वात् तस्य च
मान्तकृत्त्वात्, 'कृन्मेजन्त: ' (1-1-29) इति
 
"
 
अव्ययसंज्ञेति
 
युक्तम् । प्रारम्भे – 'हरिः ओ३म् ' अग्निमीडे पुरोहितम् ' ।
अङ्गीकारे— 'ओमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य बाचं नभः '
 
-
 
1. ऐषमोझः श्वसोऽम्यतरस्याम्' (4-2-105) इति शैषिकस्य प्
विकल्पेन। पक्षे, 'सायं चिरंप्राहे प्रगेऽव्ययेभ्यः- (4-3-23) इति
ट्युः, ट्र्युल् वा प्रत्ययः, तुडागमश्च ।
 
1. 'ओमभ्यादाने' (8-2-87) इति प्लुटोडल । अभ्वादानम् =
 
प्रारम्भः ।