2023-07-15 11:45:08 by ambuda-bot

This page has not been fully proofread.

(274)
 
"एहि " (ति. प्र.)
 
1.
 
प्रहास - कोपादिष्वर्थेषु तिङन्तप्रतिरूपकमिंदमव्ययं चादिषु द्रष्टव्यम् ।
 
;
 
मुदाहरणम् ।
 
प्रहासे – 'एहि' मन्ये रथेन यास्यसि स गतः ।' कोपे– 'एहि, त्वया सह
न जल्पिष्यामि' । इदं च उदाहरणम् – निपाताव्ययोपसर्गवृत्ति-गण-
रत्नमहोदध्यायनुसारेण दत्तम् । वस्तुतस्तु प्रकृतस्थलेषु 'एहि मन्ये
इत्यादिवाक्येषु तिङन्तप्रतिरूपकत्वाश्रयणस्थानतिप्रयोजनकत्वात् चिन्त्यमिद-
किन्तु – 'एहीडम्' इत्याद्येवोदाहरणमिति बोध्यम् ।
मयूरव्यंसकादिगणे (2-1-72) 'एहीडम्, एहियवम् एहिवाणिजा
[क्रिया] एहिस्वागता, एहिद्वितीया, ' इत्यादयः शब्दा: पठचन्ते । तेषु
स्थलेषु समासानुपपत्तिमाशंक्य शाब्दिकैः 'एहीडादयोऽन्यपदार्थे '
(काशिका 2-1-72) इति वचनेन समासोपपत्तिः कल्प्यते । तादृशस्थलेषु
समस्तपदघटकानां 'एहि ' इत्यादीनां तिङन्तत्वकल्पने स्वरादिदोषदर्शनात्,
तेषामपनोदनाय तिङन्त प्रतिरूपकत्वमाश्रयणीयमिति–एतान्येवोदाहरणानि
न्याय्यानीति ज्ञेयम् ।
 
141
 
6
 
'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच' (1-4.104) इत्यनेनात्र
मन्यतिधातावुपपदे प्रहासे गम्ये धातुसामान्यस्य मध्यमपुरुषविधानात्
अखापि 'एहि ' इति मध्यमपुरुषः ।