2023-07-15 11:45:07 by ambuda-bot

This page has not been fully proofread.

एकपरि
 
137
 
कालवाचकस्त्रे तु 'सबैकान्यकियत्तदः काले दा' ( 5-3-15) इति
दाप्रत्ययः । एकदा एकस्मिन् काले इत्यर्थः । तथैकल करे
दश ।' (मनु. 5-136 ) ।
 
=
 
(267)
 
एकपढ़े" (चा.)
 
'मद्य:, तुल्यकाले, अकस्मात्' इत्याचर्येषु निपातोऽयम् । 'कथ-
मेकपढ़े निरागसं जनमाभाष्यमिदं न मन्यसे ॥ (रघु· 8-48 ) । ' स्यात्
तत्क्षण एकपदम्' इति विश्वकोशात् क्लीबान्तं शब्दस्वरूपमिदमिति
शब्दकल्पद्रुमः । दिलकादिभिस्तु चादित्वमुररीकृत्य एदन्तमव्ययमिति
व्याख्यातम् । 'एदन्तं त्वव्ययं सद्योऽर्थे स्याद् एकपदे इति । इति
वाङ्मयार्णवोऽप्यत्रैवानुकूलः ।
 
9
 
6
 
66
 
अत्रेदमबधेयम् – एकः पादः साधनं यस्मिन् प्रहरणे इत्यर्थे द्विदण्डया-
दिलात् (-4-128) समासान्ते इच्प्रत्यये, तस्य भसंज्ञक त्वात् पादशब्दस्य
पद्भावे, 'इच्' (ग. सू. 2-1-17) इति वचनात् अव्ययीभावसंज्ञायामव्ययत्वम्
एकपदि' इत्यस्य शब्दस्य यद् बोध्यते - तत् अव्ययमन्यत्, भिन्नार्थ-
क्रमस्मात् – इति ।
 
-
 
(268)
"एकपरि" (अ.)
 
एकेन विपरीतं वृत्तमित्यर्थे 'अक्षशलाकासंख्याः परिणा' ( 2-1-10)
इति संख्यावाचक एकशब्द परिणा समस्यते । अव्ययी भावसमासोऽयम् ।