2023-07-15 11:45:06 by ambuda-bot

This page has not been fully proofread.

136
 
एकत्र
 
(263)
 
"ॠ" (नि.)
 
वाक्यारम्भेऽयं निपात इति केचित् ।
 
'ॠ वाक्योपक्रमे त्राणे '
 
इति वाङ्मयार्णवः। 'निन्दाभययोरपि ' इति शब्दरत्नावली । मन्त्रस्तो-
भवचनेऽपि दृश्यते ।
 
(264)
 
"ल" (नि.)
 
प्रयोगो
 
देवमातरि, दैत्यस्त्रियां, भुवि, भूधरे च रूढोऽयं निपातः ।
मृग्यः । एकाक्षरकोशेषु पठघते । केचिदमुमेव दीर्घान्त पठन्ति ।
 
(265)
 
"ए" (नि.)
 
स्मृति असूया - अनुकम्पा सम्बोधनादिषु निपातोऽयम् । ' एस्मृता-
-
 
बप्यसूयाऽनुकम्पाऽऽमन्त्रणहूतिषु' इति वाङ्मयार्णवः । यथासम्भवै प्रयो-
गा उन्नेयाः । सम्बोधने– 'ए ! इतो भव' ।
 
(266)
 
66
 
" (त.)
 
'एकस्मिन्' इत्यर्थे सर्वनामसंज्ञकत्वादेकशब्दात् 'सप्तम्यास्त्र '
विभक्तिसंज्ञायाम्,
 
एकत्र "
 
( 5-3-10) इति त्रत्प्रत्ययः । प्राग्दिशीयत्वादस्य
' तद्धितश्चासर्वविभक्तिः ' (1-1-38) इत्यव्ययसंज्ञा ।