2023-07-15 11:45:07 by ambuda-bot

This page has not been fully proofread.

135
 
कत्वात् 'पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्' (2-3-32) इति योगवि-
भागेन प्रकृतस्थले द्वितीयापि साधुरिति कश्चित् । योगविभागे प्रमाणसद्धा-
वेऽपि विनार्थकस्य 'ऋते' इत्यस्यापि स्वरूपग्रहणस्थले ग्रहणे प्रमाणाभाव
इति शास्त्रस्थितिः ।
 
ऋषट्
 
ऋतेकर्मम् इति वाचस्पत्य उपात्तम् । तस्यायं भावः-
-
 
' कर्म
 
वर्जयित्वा' इत्यर्थेऽव्ययीभावसमासे बाहुलकात समासान्तोऽप्रत्ययः । ये "ये
कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुपाजायन्त देवाः' (ऋक्. 10-55-6)।
 
(261)
 
ऋधक् (स्व.)
 
सत्य-वियोग-शीघ्र-सामीप्य लाघबा दिप्वर्थेषु स्वरादिषु पठघते। सत्ये-
'ऋधग् वदन्ति विद्वांसः ' । वियोगे– 'किंस ऋधक् कृणवद् यं सह-
स्रम् –' (ऋ. 4-18-4)। अत्र पृथक्करणमर्थः । शीघ्र – 'ऋधग् गच्छति
मारुतिः'। सामीप्ये—'ऋधग्यतो अनिमिषे रक्षमाणाः' (ऋक्. 6-1-3 ) ।
एबमन्येष्वव्यर्थेषु प्रयोगा ऊह्या समृद्धिरप्यस्यार्थत्वेन क्वचित् पठयते ।
 
66
 
(262)
 
ऋषट् " (ख.)
 
हविर्शनार्थे ' वषट्' इत्यादिवत् इदमप्यव्ययमिति तिलकवृत्तौ दृश्यते ।