2023-07-15 11:45:07 by ambuda-bot

This page has not been fully proofread.

ऋचसे
 
(255)
 
'ऊर्ध्वम् " (स्व.)
 
ऊर्ध्वदेशरूपार्थेऽधिकरणशक्तिप्रधानकमव्ययमिदम् । यद्यपि ऊर्ध्वधा,
 
ऊर्ध्वशोषम्, ऊर्ध्वदेशः इत्यादिषु स्थलेषु शब्दोऽनव्ययोऽप्यकारान्तः पठ्यते
'ऊर्ध्वः' इति; तथापि मकारान्तमप्यव्ययं ' उर्ध्वं प्राणाः बुत्कामान्ति — '
(मनुस्मृतिः) इत्यादिप्रयोगबलादध्यवसीयते । कचित् भाविकालपरताऽप्यस्य
प्रकरणादिना गम्यते । यथा- 'इत ऊर्ध्वमहं भक्त्या रमाकान्तपदार्चनम् '
इत्यादिषु ।
 
133
 
(256)
"ऋ" (व.)
 
सम्बोधन गर्हण-वाक्यविकार- परिहासादिषु स्वरप्रतिरूपकमिदं स्वरा-
दिषु द्रष्टव्यम् । मन्त्रस्तोभवचनेऽपि मन्त्रशास्त्रेष्वयं प्रसिद्धः । एकाज्निपात-

 
त्वात् प्रगृहासंज्ञायाम्, ऋ ऋतधामन् ! इत्यादिषु स्थलेषु प्रकृतिभावः ।
 
(257)
 
" ऋचसे " (कृ.)
 
'ऋच स्तुतौ' इत्यस्मात् 'तुमर्थे सेसेनसेअसेन्' (3-4-9) इत्यादिना
भावे कसेन्प्रत्यये, कित्त्वाद् गुणनिषेधे च रूपमेवम् । 'प्रवां मान्मान् ऋचसे
नवानि ' (ऋक्. 7-61-6)। 'कृन्मेजन्त: ' (1-3-39) इति अव्ययत्वमस्य ।