avyayakośa /168
This page has not been fully proofread.
ऊरी
(252)
"ऊम्" (चा.)
रोषोक्ति प्रश्न - निन्दा - स्पर्धादिषु निपातोऽयं चादिषु द्रष्टव्यः ।
स्त्रीणां विकारवचनेऽपि नाटकादिषु प्रयुज्यते । यथा – 'ऊम्' नाहमेवं
जानामि ' इति ।
-
132
(253)
" ऊररी " (ऊर्यादिः)
अङ्गीकार विस्तारादिषु ऊर्यादिगणे द्रष्टव्यः । 'उररी' इत्यस्यैव
द्विरूपकोशादिषु एवमपि पाठ: । 'ऊरुरी' इत्यपि वाचस्पत्यादिषु
पठयते । तत्राप्येवमेवार्थः ।
(254)
66
"ऊरी" (ऊर्यादिः)
अङ्गीकार-विस्तार-दाढर्थादिष्वर्येषु ऊर्यादिषु द्रष्टव्यमिदम् । यथा -
-
6
' ऊरीकर्तुं कुशलमखिलं जेतुमादीन् अरातीन्–' (श्रीस्तुतिः) । अत्र
विस्तारार्थेऽस्य वृत्तिः । तदूरीकृत्य कृतिभिः –' (माघे 2-30) इत्यत्र
तु अङ्गीकारोऽर्थः । केचित् अनुकरण-शब्द - प्रशंसादिष्वयमं पठन्ति ।
प्रयोगा यथायथमुन्नेयाः ।