2023-07-15 11:45:07 by ambuda-bot

This page has not been fully proofread.

131
 
' सायंचिरं प्राह्णेप्रगेऽव्ययेभ्यः -१ (4-3-23) इत्यनेन भवार्ये ट्युल्प्रत्य-
स्योपपत्स्यर्थ स्वरादित्वेनाव्यत्वमपि, इति बोध्यम् ।
 
(249)
 
उष्णम्" (साक्षात्)
 
साक्षात्प्रभृतिगणं (1-4-74) पाठात् उष्णशब्दस्य मान्तत्वम्,
विप्रत्ययार्थे गम्ये गतिसंज्ञाविकल्पश्च । तेन गतिसंज्ञायां समासे, उष्णंकृत्य
इति सिध्यति । यदा तु गतिसंज्ञा न, तदानीं उष्णम् कृत्वा इत्येव । साक्षात्
च्चिप्रत्ययस्थले तु उष्णीकृत्य इत्येव, नात्र गतिसंज्ञा । 'उष्णंकृतोऽचिंधि
वशेकृद् अमाकृदास्ते ।' इति वर्धमानः (पु. 140 ) ।
 
(250)
 
"उह" (चा.)
 
66
 

 
'उ+ह' इत्यव्ययद्वयसमुदायोऽयं चादिषु द्रष्टव्यः । सम्बोधन-
अवधारणावस्यायौं । एवम्, 'उहह' इत्यपि सम्बोधनार्थकमव्ययं निपात-
समुदायरूपं चादिष्वेव द्रष्टव्यम् ।
 
(251)
 
66
 
वाक्यारम्भ-सम्बोधन-रक्षा-
दयादिष्वर्येषु स्वरप्रतिरूपक मिदमव्ययम् ।
यथासम्भवं प्रयोग उन्नेयः । ' उञ्' इति पूर्व विलिखितस्य जितोऽन्यस्य
स्थाने अयमादेशतयापि कचिद् भवति । विस्तरस्तु तत्रैव द्रष्टव्यः । निषेधों-
ऽप्यस्यार्थः । यथा— 'ऊ ऊषरे बीजं वपसि' इति ।