2023-07-15 11:45:05 by ambuda-bot

This page has not been fully proofread.

126
 
उपसि
 
(233)
 
"उपरि" (त.)
 
ऊर्ध्व ऊर्ध्वं ऊर्चात् इत्यर्थेषु ऊर्ध्वशब्दात् 'उपर्युपरिष्ठात् '
(5-3-31) इति सूत्रे निपातनात् प्रकृतेः उप इत्यादेश: रिल्प्रत्ययश्च ।
ऊर्ध्वकाले, देशे वा इत्यर्थः । प्रायोऽयमधिकरणशक्तिप्रधानः। 'नीचैर्गच्छ-
त्युपरि च दशा चक्रनेमिक्रमेण ' (मेघसन्देशे) । ' उपर्युपरि लोकम् ' ।
अत्र, ' उपर्यध्यधसः सामीप्ये' (8-1-7) इति द्विर्वचनम्।' उभसर्वतसोः
कार्या धिक्युपर्यादिषु त्रिषु ।' (बार्तिकम् 2-3-2) इति द्वितीया ।
 
(234)
 
" उपरिष्टात् " (त.)
 
ऊर्ध्वं, ऊर्ध्वात्, ऊर्ध्वे, इत्यर्थे 'उपर्युपरिष्टात्' (5-3-31) इति
 
निपातनात् ऊर्ध्वशब्दस्य 'उप' इत्यादेशः, रिष्टातिल्प्रत्ययश्च । 'उपरिष्टात
प्रतिष्ठन्ते । औपरिष्टः । अत्र भवार्थेऽणि 'अव्ययानां भमात्रे (वा. 6-4-144)
इति टिलोपे आदिवृद्धौ च रूपम् ।
 
9
 
(235)
 
"उपसि" (नि.)
 
समीपार्थकमव्ययमिदं छान्दसम् । 'आसीन ऊर्ध्वामुपसि क्षिणाति '
 
(ऋ. क् 10-27-3)।