2023-07-15 11:45:03 by ambuda-bot

This page has not been fully proofread.

छत्
 
117
 
नोदुदु हर्षसे दातवा उ (ऋक् 4-21-9) ' । विपर्यासे – उद्वेलः ।
 
-
 
विलेखने — उत्कििरति । हिंसायाम् - उत्क्राथयति, उन्नाटयति,
 
-
 
उन्मूलनम् । औत्सुक्ये— उत्कण्ठा, उत्कः, उत्सुकः । उपदायाम्-
2 उत्कोचः । शंसायाम्— उत्कृष्टः, उत्सवः । असूयायाम्-उस्कुरुते
वाग्भिः । माध्यस्थ्ये – उदासीन: । साहसे—उत्कुरुते कन्याम्;
सहसा कामयते कन्यामित्यर्थः । प्राबल्ये – उत्कटः कामः । तृप्तौ-
उत्कृतोऽयमन्नेन । निर्देशे — उद्देशः । दिग्योगे – उदीची दिक् ।
 

 
-
 
उदक् देशः कालो वा । व्रतनिर्गमे - उदीक्षणम् ।
 
-
 
1. 'उत्' इत्यस्मात् संसाधनक्रियावाचिन:, तद्वत्यर्थे कम्प्रत्ययो भवति,
• उत्क उन्मना: ' (5-2-80) इति निपातनात् । उस्को देवदत्तः,
उस्क: प्रवासी । उत्सुक इत्यर्थः ।
 
2. उत्कोचो नाम अन्याय्येन मार्गेण घनादिदानं धनप्रतिग्रहो वा
तदेतदुच्यते उपदेति ।
 
3.
 
अस तिलकेन 'सूचने' इत्युपादाय विवृतम् । असूयाया एव सूच-
नमणि पर्यायशब्दः । क्षीरस्वामी तु मूलेऽसूयापदं प्रायुङ्क्त। बथा-
मूल सर्वत्र तिलकेन विवरणे क्रियमाणेऽपि, अस पर्यायपदेन विवरण-
स्य तात्पर्य तावत्- 'गम्धनावक्षेपण -' (1-3-32) इत्यत्र गन्धन-
शब्दस्य सूचनार्थकत्वेन शब्दविद्भिः विवरणात् अस च तद्धातुप्रयोगात्
तदेव सूचनमिहासूयाशब्देनोच्यते इति ज्ञापनार्थमिति बोध्यम् ।
 
4, अद्यापि 'गन्धनावक्षेपण -' (1-3-32) इत्यादिना साहसिक्ये
उत्पूर्वकस्य कृञस्तङ् । साहसम् = अन्यायप्रवृत्तिः ।