2023-07-15 11:45:03 by ambuda-bot

This page has not been fully proofread.

113
 
'उञ्' इति । 'उञः' (1-1-17) इत्यनेन विकल्पेन प्रगृह्यसंज्ञायाम् उ
इति, विति इति प्रकृतिभावविकल्पो भवतीति बोध्यम ।
 
ROH
 
उच्चा
 
-
 
वितर्क-सम्बोधन-पदपूरण-पादपूरण-रोपोक्ति-अनुकम्पा प्रश्न अङ्गीकार-
नियोगादयोऽयथस्तित्र तत्र निर्दिष्टाः । ' उ सम्बोधनरोपोक्स्योरनुकम्पानियो-
गयोः ! पदस्य पूरणं पादपूरणे चाव्ययं स्मृतम् ॥' इति वाङ्मयार्णवे। यथा
वितर्के- -कउ एति ? । सम्बोधने - ' उ मेति मात्रा तपसो निषिद्धा पश्चा-
दुमाख्यां सुमुखी जगाम ॥' (कुमारसम्भवे 1-26 ) । पदपूरणे- 'उपो रुरुचे
युवतिर्न योषा' (ऋक्. 7-77. 1 ) । अन 'उप + उ ' इति समुदितमव्ययम् ।
उकार: पदपूरक: सन् स्वरविपर्यासकोऽवेत्यतः पदपूरकत्वमिति ज्ञेयम् ।
पादपूरणे—— तदेवाग्निस्तद् वायुः तत्सूर्यः तद् चन्द्रमाः ॥' (तैत्ति आर.
10-1) । रोषोक्तौ — 'कं वर एन सयुग्वानमिव रैक्वमान्थ ?' (छान्दोग्ये)
अत्र ' कं उ अरे' इति पदच्छेदः । उकारोऽन रोक्तौ । अनुकम्पायाम्--
6
 
-
 
" न वा उ एतन्त्रियसे न रिव्यसे–' (तैत्ति, ब्रा. 3-7.8.3 ) । प्रश्ने -
' वेत्थो यथेमं लोकं पुनरापद्यत इति' (बृह. उप.) वेत्थ + उ इति छेदः ।
उकारोऽल प्रश्नार्थकः । अङ्गीकारनियोगयोरप्येवमह्यम् । नियोगोऽवधारणमिति
केचित । अतिसर्जन मिति परे ।
 
(218)
 
66
 
" उच्चा उपर्यथें" (नि.)
 
नीचादुच्चा चक्रथुः पातवें वाः । १ (ऋक् 1.116-22)।
छान्दसोऽयम् । लोकेऽपि कचित् प्रयुज्यते । यथा - '.... उच्चा रणत्पक्षिग-
स्टीस्म ।' (माघे 4-18 ) ।