2023-07-15 11:45:00 by ambuda-bot

This page has not been fully proofread.

103
 
वायविति । विति। इति । उ इति, विति ऊं इति । झटिति,
पटिति । पटपटेति ।
 
समाप्तौ —' अ अ इति (अष्टाध्यायी 8-4-68)। 'पृथिव्यापस्तेजो वायु-
9
 
1
 
राकाश: कालो दिगात्मा मन इति द्रव्याणि (वैशेषिकसूत्रे 4-1.5 )।
"विवक्षाऽनियमे ' तदस्यास्यस्मिन् इति मतुपू' ( 5-2-94)।
शब्दप्रादुर्भावे – "इतिपाणिनि । पाणिनिरुध्द: प्रसिद्ध इत्यर्थः ।
 
एवमर्थे– ' क्रमादमुं नारद इत्यबोधि सः ॥' (माघे 2-3)। मतेऽपि –
 
बोध्यम् ॥ झटिति, पटिति इत्यादिषु स्थलेषु 'अध्यक्तानुकरणस्वात
इतौ' (6-1-98) इति पररूपम् । 'पटत्पटिति' इत्यत्र तु
 
नांडितस्य; अन्त्यस्य तु वा' (6-1-99) इति पाक्षिकं पररूपम् :
 
"
 
तेन पक्षे पटपट इति' इत्यपि साधुः । आम्रेडितस्थलेऽपि पररूपपक्षे
 
4
 
पटपटिति इति केचिदुदाहरन्ति ।
 
• यं प्रवजन्तम्-
इति
 
6
 
भागवतश्लोकेऽपि 'द्वैपायनो विरहकातर आजुहाव पुत्रेति इत्य
प्लुतस्य वैकल्पिकत्वान् सन्धिनिंदुष्टः । सुश्लोका ३ इति
सुश्लोकेति इत्यादिषु तु 'अप्लुतवदुपस्थिते (6-1-129)
इत्यनेनाप्लुतवद्भाव: । उपस्थितः = अनार्ष इतिशब्दः । विस्तरस्तु
प्रौढमनोरमादिषु द्रव्यः ।
 
T
 
6
 
-
 
9
 
>
 
"
 
1. विवक्षाया अनियमो विवक्षाऽनियमः । उपात्तार्थेष्वेव विश्रान्तिरिति
विवक्षाया नियमो नेति भावः । अत एवात्र (5-2-94) सुखे
तदस्य, तदस्मिन् इत्यर्थद्वयस्यैव विवक्षेति नः किन्तु " भूमनिन्दा-
प्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्ति विवक्षायां भवन्ति
मतुबादयः ॥ " इति श्लोकवार्तिकोपात्तानां सप्ताधिकानामप्यर्थानां
प्रदर्शकतयाऽर्थद्वयोपादानमिति भावः ।
 
2. अल, ' भव्ययं विभक्ति-' (2-1-6) इत्यादिना शब्दप्रादुर्भावार्थे
अव्ययीभाव समासः । शब्दप्रादुर्भावः = शब्दस्य प्रकाशता । पाणिनि-
शब्दो लोके प्रकाशत इत्यर्थः ।