2023-07-15 11:44:59 by ambuda-bot

This page has not been fully proofread.

100
 
यतायं पुरुषो म्रियते, उद् अस्मात् प्राणा: क्रामन्ति, आहो न "
(बृहदारण्यकोपनिषत् ) इत्यत्र प्रश्नार्थकत्वम् । तथा, 'आहो निवस्यति
समं हरिणाङ्गनाभि: ।' (शाकुन्तले 1-25) इत्यत्र विचारार्थकत्वम् । 'आहो
इत्यादिषु ओदन्तनिपातत्वेन प्रगृह्यसंज्ञायां 'प्लुतप्रगृह्या:--
( 6-1-125) इति प्रकृतिभाव इति विशेषः ।
 
अयम् '
 
66
 
(191)
 
आहोखित् वितर्कयद्यर्थयोः " (चादिः)
 
'आहो' इत्यनेन वितर्कार्थकस्य ' खित्' इति निपातस्य समुदये
 
प्रौढमनोरमायाम्
 
आहोस्वित् इति सम्पद्यते । पूर्ववदेवार्थः ।
चादिप्रकरणे विकल्पार्थकत्वमप्यस्योक्तम् । 'आहोखित् शाश्वतं स्थान
तेषां तत्र द्विजोत्तम ! १ इति महाभारते (समा ५. अ.) । 'आहो-
स्वित् प्रसव मयापचारितैर्विष्टीम्भतो वीरुधाम्' (शाकु. ५) आहो
इति, खित् इति च भिन्नं द्विपदम्, इति केचित् ।
 
(192)
 
"इ अनुकम्पायाम् " (चा, खरप्रतिरूपकम् )
 
'इ इन्द्रं पश्य !' अत्र, 'निपात एकाजनाङ्' (1-1-14) इति
निपातसंज्ञायाम्, 'प्लुतप्रगृह्या अचि नित्यम्' (6-1-125 ) इति प्रकृति-
भावः । 'सम्बोधनजुगुप्सा विस्मयेषु ' इति प्रौढमनोरमा (चादिषु) ।
वाचस्पत्ये तु भेदरोषोक्तिनिराकरणमदनिन्दादयोऽप्यस्यार्थत्वेन निर्दिष्टाः ।
यथासम्भवमुदाहरणान्यूह्यानि । 'इ खेदे परुषोक्तौ चापकृतावनुकम्पने ।
इति वाङ्मयार्णवः ।
 
SM