2023-07-15 11:44:59 by ambuda-bot

This page has not been fully proofread.

आहो
 
(188)
 
"आह उवाचार्थे " (ति. प्र.)
 
6
 
'अस्याह कालसामान्ये तिङन्तप्रतिरूपकम् ।' इति त्रिकाण्डशेषः ।
 
अथाऽऽद्द वर्णी विदितो महेश्वरः – ' ( कुमारसम्भवे 5-65 ) । 'आह
 
-
 
'
 
क्षेपनियोगयोः' इति मेदिनी । दृढसम्भावनमस्यार्थ इति शब्दरत्नावली ।
ब्रुवः पश्चानामादित आहो ब्रुव:' (3-4-84) इत्यनेन बन्धातोर्लटि यद्यपि
आह इति पाक्षिकं रूपं सम्पद्यते; तथापि तस्य वर्तमानकालिकत्वात्, अस्य च
कालसामान्यवाचित्वाञ्च कालभेदार्थं तिङन्तप्रतिरूपकत्वेनाव्ययत्वमाश्रितमिति
ज्ञेयम् । स्पष्टमिदम्, ' वर्तमाने लट् ' (3-2-123) इत्यत्र दुर्घटवृचौं ।
 
(189)
 
"आहिमवतम् " (अन्य )
 
हिमवत आ = आहिमवतम् ।' आङ् मर्यादाऽभिविष्यो: ' (2-1-33)
इत्यव्ययीभावसमासे, 'अव्ययीभावे शरत्प्रभृतिभ्यः' ( 5-4-907) इति
(हिमवच्छब्दस्य शरत्प्रभृतिषु पाठात् ) समासान्ते टन्प्रत्यये रूपमेवम् ।
आहिमवतम् हिमवन्तमभिव्याग्य इत्यर्थः ।
 
(190)
 
"आहो वितर्कयद्यर्थयोः" (ख.)
 
99
 
वितर्फे " स्थाणुरयम्,
 
आहो पुरुष: ? "
 
यद्यथे— आहो रिक्तः कथमपि भवेदेष दैवात् तदानीम् -
( काव्यप्रकाशे ) । प्रश्नविचारावपि वितर्कावान्तर भेदावेव ।
 
यथा-
-