2023-07-15 11:44:59 by ambuda-bot

This page has not been fully proofread.

98
 
.
 
गतिदीप्त्यादानेषु' (भ्वादि: सक. सेट् उभ.) इत्यस्मात् लिटि रूपं
साधयित्वाऽस्या नव्ययत्वमिच्छतीति वर्धमानः । वल्लभस्तुतिङन्तप्रतिरूपको
निपात इति नाभ्युपगच्छतीति गणरत्ने प्रतिपादितम् । वस्तुतस्तु सर्वशिष्ट-
सम्मतत्वात् तिङन्तप्रतिरूपकमध्यस्त्येवेति भाष्यादिषु स्पष्टमित्यन्यत्र
 
विस्तर: ।
 
आस्था
 
(186)
 
आस्" (व.)
 
'आः' इति पूर्वं विलिखितस्य सकारान्तः पाठ एवम् । तत्रैव विशेषाः
स्मरण-आक्षेप- कोप- सन्ताप-पीडा-सगर्वगर्जन- खेद-प्रभृतयोऽ-
द्रष्टव्याः ।
 
प्यस्यार्थत्वेन वाचस्पत्ये निर्दिष्टाः । यथासम्भवमुदाहरणानि नाटकादिषु
सुलभानि ।
 
66
 
6
 
(187)
 
"आस्था आदरे प्रतिज्ञायां च " (सा.)
 
आस्थाकृताः कृतनमस्कृतयोऽर्थमर्थेकृत्य व्रती च नृपती च नृपस्य
 
जग्मुः ॥' इति गणरत्ने उदाहृतम् । साक्षात्प्रभृतित्वात् कृञो योगे
गतिसंज्ञा इति विशेषः । यथासम्भवम् आदरः, प्रतिज्ञा वा अनाथों बोध्यः ।
आपूर्वकात स्थाधातो: 'आतश्चोपसर्गे' ( 3-3-106) इत्यहि टापि यद्यपि
आस्था इति रूपं सिद्धयति, अर्थश्च न मिद्यते; तथापि व्यर्थलाभार्थ
साक्षा प्रभृतिषु पाठः, समासार्थश्चेति बोध्यम् ।