2023-07-15 11:44:58 by ambuda-bot

This page has not been fully proofread.

92
 
आयतीगवम्
 

 
ख्यानार्थं प्रमाणं मृग्यमेव । अत एव जयमङ्गलायाम् 'उक्षान् प्रचक्रे' इति
' प्रविभयांचकार' इति च पाठ: परिकल्पितः । वार्तिकेऽपि 'विपर्यास-
निवृत्त्यर्थं वा, व्यवहितनिवृत्त्यर्थं च ' इति प्रकृतसूत्रे पठितत्वात्, "अन्वेव
च कृञोऽनुप्रयोगो यथा स्यात् — ईहांचक्रे । व्यवहितस्य मा भूत् इति 'ईहाँ
देवदत्तश्चक्रे' इति " इति भाष्याच्चेदं सिद्धम् । एवंच व्यवहितप्रयोगस्यापि
साधुत्वकल्पनप्रयासो विफल इति, मुनित्रयासम्मत इति चेत्यलम् ।
 
(175)
 
"आयतीगवम् " (तिष्ठद्गु.)
 
दोहाथ जलपानार्थं निवासार्थ वा आयत्यो गावो यत्र काले स काल:
आयतीगवम्। 'तिष्ठद्गुप्रभृतीनि च ( 2-1-17 ) इत्यत्र गणे पाठात्
अव्ययीभावसमासः, तस्य च ' अव्ययीभावश्च' (1-1.41) इत्यव्ययत्वम् ।
'नाव्ययीभावाद् अतोऽम् त्वपञ्चम्या:' (2-4-83) इति सप्तम्या अम्भावः ।
गणपाठादेवात्र पुंवद्भावाभावः, शत्रादेशः, समासान्तोऽच्प्रत्ययश्चेति ज्ञेयम् ।
' आतिषद्गु जपन् संध्यां प्रकान्तामायतीगवम्' इति भट्टिः (4-14)।
तिष्टद्गुप्रभृतिषु पठितानि शब्दस्वरूपाणि यथासम्भव कालवाचकानि, देश-
वाचकानि च भवन्ति । तदेवोक्तम् 'अन्यपदार्थे—' इति वृत्तौ । यस्य
शब्दस्वरूपस्य कालवाचकत्वमिष्टं तस्यैव देशवाचकत्वमपि काशिकाद्यनभि-
मतम् । गणरत्नमहोदधिकारस्तु यथासम्भवमेतेषां देशवाचकत्वमपि प्रत्येक
अभिप्रैति । एवंच बहुव्रीहिसमासस्यापवादोऽयमिति भावः । देशवाचकत्वे तु
 
बहुव्रीहिदुर्बारः – आयत्यो गावो यत्र स आयद्गुः इति ।
 
-