2023-07-15 11:44:58 by ambuda-bot

This page has not been fully proofread.

90
 
आम्
 
उच्चैस्तमाम्
 
इत्यादि । अत्र 'किमेत् तिङव्ययघादाम्बद्रव्यप्रकर्षे '
 
"
 
(5-4-11) इति आमुप्रत्यय इति ज्ञेयम् । क्रिमः, एकारान्तात्,
तिङन्तात् अव्ययेभ्यश्च विहितो यो घः (=तरप्तमप् प्रत्ययौ )
तदन्तात् प्रातिपदिकात् अद्रव्यप्रकर्षे आम् भवतीति सूत्रार्थः । उकारस्य
'उपदेशेऽजनुनासिकः –' (1-3-2) इति इत्संज्ञायाम, 'तस्य लोपः '
(1-3-9) इति लोपः। सूत्रे 'किम्' इति स्वरूपस्य ग्रहणम् । एवम्,
'एत्' इति एदन्तनिदानस्य ग्रहणम् तेन 'सायाहेतराम्, सायाहेतमाम् '
'
इत्यादयोऽपि सिद्धयन्ति । एवम् तिङन्तेभ्य: सर्वेभ्योऽपि लकारेभ्यो-
आम् भवति । तेन वक्तितराम्, वक्तितमाम् विराजतेतराम् विराजतेतः
माम् इत्यादयोऽपि साधव इति बोध्यम् । अव्ययेभ्योऽपि सति प्रयोगे आम
भवति, ततश्च सुतराम् सुतमाम् इत्यादीनि सिद्धानीति ज्ञेयम् । 'अद्रव्य-
प्रकर्षे' इत्युक्तत्वात् निरुक्तेषु निदानेषु सत्स्वपि द्रव्यप्रकर्षे विवक्षिते उच्चस्तरः
उच्चैस्तमः इत्येव; अत्र आम् न भवतीति ज्ञेयम् । तिङन्तसामान्यस्यैव आम्प्र-
योजकत्वात् णिजन्तसन्नन्तादिभ्य आतिदेशिकधातुभ्योऽपि अद्रव्यप्रकर्षे आम्
साधुः । तेन कारयतितमाम् इत्यादयः साधव इति बोध्यम्। अव्ययीभाव-
समासान्तस्यापि अव्ययत्वं यद्यपि भवति, तथापि अव्ययीभावान्तं शब्दस्वरूपं
आम्प्रयोजकं न, 'अव्ययीभावस्याव्ययत्वे लुङ्मुखखरोपचारा: प्रयोजनम् '
(वा. 1-1-41) इति प्रयोजनानां भाष्ये परिगणितत्वात् । किञ्च, अस्य
आम्प्रत्ययस्य तद्धितान्तत्वेन 'अभिधानलक्षणाः कृत्तद्धितसमासान्ताः' इति
भाष्यकारैरसक्कदुक्तत्वात् अव्ययीभावान्तानां आम् न भवति इति च बोध्यम् ।