2023-07-15 11:44:57 by ambuda-bot

This page has not been fully proofread.

आलू
 
86
 
इत्यनेन तदन्तात् आम्प्रत्यये, 'किंतराम्, किंतमाम्' इत्यादिवत् रूप
सम्पद्यते इति बोध्यम् ।
 
(160)
 
"आताली वर्णे" (ऊर्यादिः)
 
' विस्तारे ' इति भोजः । '– उत्तमार्थे ' इति केचित् । 'विद्
'राकुलीभावे' इति वर्धमानः । ऊर्यादित्वात् कृञो योगे गतिसंज्ञायां ममामे
ल्यपि आतालीकृत्य इति सम्पद्यते ।
 
(161)
आतृदः " (कृ.)
 
आपूर्वकात् 'उ तृदिर् हिंसानादरयो: ' ( रुधादि: सक सेट्र.)
इत्यस्मात् 'सृपितृदोः कसुन्' ( 3-4-17) इति कसुन्प्रत्ययः । तुम
छन्दसि रूपमेतत् । 'क्त्वातोसुन्कसुनः' (1-1-40) इति कसुनन्तस्य
अव्ययसंज्ञा । 'पुरा जर्तृभ्य आवृदः' (ऋक् 8-1-12)।
 
(162)
 
"आत् प्रश्नाधिकारानन्तर्यप्रतिज्ञास मुच्चयेषु " (चादिः)
 
प्रश्न – विश्वकर्मा विमना आद् विहाया: ' (ऋक् 10-82-2 ) ।
अधिकारे—'आत् क्रतून् वर्तयिष्यामः ।
 
आनन्तर्ये — 'आद् इद् द्यावा पृथिवी अप्रथेताम्' (अनन्तरं रोदसी प्रथित
इत्यर्थः ।)