2023-07-15 11:44:57 by ambuda-bot

This page has not been fully proofread.

84
 
आके
 
6
 
हुं मातर्देवतानि धिक् ।' (भट्टि: 6-11) विस्मयादिष्वपि दृश्यते – 'आः
कथं दाशरथि: ! " इति यथा । 'स्मृतिः, स्पर्धा, तर्जनम्' इत्यादयो-
sप्यस्यार्था इति शब्दरत्नावली ।
 
1
 
(153)
"आकाशे " (चा.)
 
'दूरस्थाभाषणं यत् स्यात् अशरीर निवेदनम् ।
 
परोक्षान्तरितं वाक्यं तद् आकाशे निगद्यते ॥' इति भरतोक्ते
 
नाटकाने वाक्यमेदे — " इति वाचस्पत्यम् । नाटकेषु, तत्रापि भाणे
आकाशे कर्ण दत्त्वा' इत्यादयः प्रयोगा एतदुदाहरणानि । वस्तुतः अन्त-
रिक्षार्थकाकाशशब्दस्य सप्तम्येकवचनान्तत्वाभ्युपगमेनापि एतस्य निर्वाह:
 
सुकरः ।
 
6
 
66
 
(154)
 
"आक्रीम्" (चा.)
 
वर्जने, वितर्के च चादिगणे (1-4-57) पठितस्य माकीम् इत्यस्या-
व्ययस्य पाठभेद एवम् इति केचित् । वितर्कार्थे 'आकीं सूर्यस्य रोचनाद् विश्वा
देवा उषर्बुधः ।' (ऋक्. (1-14-9) इति प्रयोगदर्शनात् अस्यापि चादिषु
सर्वसम्मतः पाठ एव प्रामाणिकः ।
 
(155)
 
" आके अन्तिकदूरयोः " (चा.)
 
6
 
• त्वमग्ने ! ऋभुराके नमस्य: ' (ऋ. ( 2-1-10 ) इत्यत्र दूरार्थ-
कत्वम्। 'आकेनिपासो अरभिर्दविध्वतः' (ऋक् 4-4-56 ) इत्यत्रान्तिकार्थ-
त्वम् । छान्दसोऽयम् ।