2023-07-15 11:44:56 by ambuda-bot

This page has not been fully proofread.

80
 
आडू
 
विज्ञानेऽङ्गीकृतौ त्यागे उत्कण्ठाऽऽवृत्तिभोजने ।
स्थानाध्मान श्रमा ह्वान नैकटये कालयापने ॥
स्पर्शावष्टम्भोपरमे भृशे कृच्छ्रादिकर्मणोः ।" ( उ. नि.उ.प्र.)
व्यापृत्यादिष्वपि दृश्यते ।
 
आभिमुख्ये— आयाति, आगतः । करणे - आचार: । ग्रहणे -
आदानम्, आसादयति । श्लेपे-आलिङ्गनम्, आभृशति । कान्तौ - आरोहति,
आवृणोति, आक्रमते चन्द्रमा: । शापे-आक्रोशः, आक्षारयति । आधाने-
आवपति, आधानम्। काङ्क्षायाम् आशास्ते, आशंसनम् । निषेधे-आक्षेपः,
आगूरते । प्रहृतायाम्-आवर्जनम्, 'दोर्दण्डाऽऽश्चित (आञ्छित) चन्द्र-
शेखरधनुर्दण्डावभङ्गोयतः, (महावीरचरिते 1-74) । वधे—आलम्भ्यो गौः ।
विस्रम्भे-आश्वासः। 'अभिविधौ-आच्छादयति । 'आकुमारं यशः पाणिनेः,
 

 
2.
 
1.
 
अस 'आङ उद्गमने' (1-3-40) इति तङ् । 'ज्योतिरुद्मन इति
वक्तव्यम्' (वा. 1-3-40) इति वचनात् सूर्यचन्द्रादिज्योति-
षामुद्गमन एवायं तङिति विशेषः ।
 
6
 
आङो यि ' (7-1-65) इति नुमागमोडल । आइपूर्वको लभधातुः
क्वचित् वधे वर्तते ।
 
3.
 
आ = समन्तात् छादयतीति वृत्तिः । आङोऽवाभिविधौ क्रियायोगः ।
'तेन सह अभिविधिः, तेन विना मर्यादा " इति शाब्दिकसमयः ।
 
06
 
4. कुमारमभिव्याप्य पाणिनेः यशो वर्तते इत्यर्थः । 'आङ्मर्यादाभिविध्योः '
(2-1-13) इति पञ्चम्यन्तेन कुमारशब्देन आङो विकल्पेन समासः ।
पक्षे 'आ कुमारेभ्यः पाणिनेर्यश: ' इति वाक्यमपि साधु । तत्र,
'पञ्चम्यपाऽऽङ्रपरिभिः' (2-3-10) इति पञ्चमी । समासाभाव-
पक्षे, 'आङ् मर्यादावचने' (1-4-89) इति आड: कर्मप्रवचनीयसंज्ञा ।
अस सूले मर्यादेत्युपत्वक्षणम्, अभिविध्यर्थस्यापि ग्रहणमिति काशि-
कादिषु स्पष्टम् ।
 
6