2023-07-15 11:44:56 by ambuda-bot

This page has not been fully proofread.

आहू
 
(148)
 
अह्वाय शीघ्रार्थे "
 
(चा.)
 
'अह्वाय सा नियमजं क्लममुत्ससर्ज ॥ (कुमारसम्भवे 5-86 ) ।
अह्नाय देवि! दयते यदसौ मुकुन्दः । (गोदास्तुतिः) ।
 
66
 
(149)
 
"आ वाक्यस्मरणयोः " (चा.)
 
-
 
-
 
वाक्ये— 'आ ! एवं नु मन्यसे । स्मरणे—आ ! एवं किल तत् ।
अनुकम्पायामपि प्रयुज्यते । यथा - आ देवदत्तो दीन: । समुञ्चयो
-आ
ज्यस्यार्थत्वेन मेदिन्यां परिगणितः । यथा- 'देवेभ्यश्च पितृभ्यश्च आ।'
इति । अब आकार: समुच्चये, इति केचित् । वस्तुतस्तु- अल चकारद्वयेनैव
समुच्चयस्य प्रतिपादितत्वात्, 'उक्तार्थानामप्रयोगः' इति भाष्यादिषु असकृ-
दुक्तेन न्यायेन आकारोऽन स्तोभार्थक इति युक्तमुत्पश्यामः । (स्तोभः -
मन्त्रादिषु केवलं पादपूरणाद्यर्थो वर्णविशेषः ।)
 
(150)
 
" आईम्" (चादिः)
 
मन्त्रस्तीमाक्षरमिदम् । अस्य प्रयोगो लोके मृग्य: । मन्त्रशास्त्रेषु
 
यथासम्भवं द्रष्टव्यः ।
 
79
 
(151)
 
आङ् "
 
66
 
'आइ आभिमुख्ये करणे ग्रहणे श्लेषधर्षणे ।
कान्तौ शापाधानकांडुङ्क्षानिषेधप्रहृतावधे ॥
विनम्भेऽभिविधौ बन्धे स्पर्धा निर्देशभूषणे ।
सम्प्रदाये पारतन्त्र्ये स्नाने संस्थानदैर्ध्ययोः ॥
 
"
 
9
 
1. अल, निपात एकाजना' (1-1-14) इति प्रगृह्यसंज्ञायाम्
'प्लुतप्रगृह्या अचि नित्यम्' (6-1-125) इति प्रकृतिभावः ।
6- वाक्यस्मरणोरडित् ॥' (वा. 1-1-14) इति वचनादडिदाकार
एष इति ज्ञेयम् । पूर्व त्वमेवं नैवममंस्थाः, इदानीं त्वेवं मन्यसे इत्यर्थः ।