2023-07-15 11:44:56 by ambuda-bot

This page has not been fully proofread.

अहोनुखलुभौः
 
(146)
 
"अहो खेदाद्भुतानुकम्पासन्तोषेषु " (नि.)
खेदे – अहो प्रमादः । अद्भुते- अहो ! आश्रर्यम् । अनुकम्पा-
याम् / – अहो निन्धोऽसिं । सन्तोषे– 'अहो ! भाष्यमहो! भाष्यमहो!
वयमहो ! वयम् '।
 
78
 
सम्बोधनेऽपि । 'अहो! बतासि स्पृहणीयवीर्यः । 'अहो' अयं बाल:
पाठकः' इत्यत्राश्चर्यस्याप्यद्भुतत्वान्नार्थभेदः शङ्कय: । केचित् तु इदंप्रथमतया
परिदृश्यमानमद्भुतमिति, लोकोत्तर विलक्षणस्वभाववत्सु च आश्रर्यावहत्वमिति
अद्भुताश्चर्ययोः भेदं निरूपयन्ति । 'अहो' इत्यस्यैव प्राकृतभाषायाम्,
 
,
 
-
 
अयो' इति रूपम् । यथा - 'अङ्घो दासीएपुत्त – ( प्रतिमानाटके
—'
अङ्के) इति । अव 'अबो' इति सकोपामन्त्रणे इति केचित् ।
 
(147)
 
अहोनुखलुभोः " (नि.)
 
अहो, नु, खलु, भोः इति निपातचतुष्टयसमुदायोऽयम् । नाट-
केषु बहुलमेवमेव प्रयुक्तमिदम् । परिक्लेशेऽस्य वृत्तिः । प्रतिमानाटके
 

 
(२ अङ्के) 'अहोतुखलु' इत्यपि प्रयुज्यते । अल व्याख्यात्रा 'अहो
तुखलु.... निपातसमुदायोऽयं कष्टे
इत्युक्तम् । तदपीहावधेयम् ।
 
:
 
एवम् अहोबत इत्यपि समुदितं प्रयुज्यते ।
 
'
 
1.
 
अल, 'ओत्' (1-1-15) इति प्रगृह्यसंज्ञायाम्,
अचि नित्यम्' (6-1-125) इति प्रकृतिभावः ।
 
'प्लुतप्रगृह्या