2023-07-15 11:44:55 by ambuda-bot

This page has not been fully proofread.

अहमर्थे – 'त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति ।' (साहित्यदर्पणे)
 
-
 
( त्वामहं वच्मीत्यर्थः ।)। 'उडुपेनास्मि सागरम् ॥' (रघुवंशे 1-2 )
इत्यत्रापि 'अस्मि' इत्येतदहमर्थकमव्ययमिति गणरत्नमहोदधौं
प्रतिपादितम् । परं तु मल्लिनाथप्रभृतिभिः 'अस्मि = भवामि '
इत्येव विवृतत्वात् अत्र न तिङन्तप्रतिरूपकमव्ययमिति बोध्यम् ।
 
(140)
 
"अह क्षेपादेशप्रशंसासु" (चा.)
 
75
 
क्षेमार्येऽपि शाश्वतः । 'अह प्रशंसाक्षिपयोर्नियोगे च विनिग्रहे । '
इति वाङ्मयार्णवः । आचारातिक्रमणेऽपि केचित् । 'पूजायाम्' इति
प्रौढमनोरमा ।
 
क्षेपे— स्वयमह अश्वेन याति, गुरु पदातिं गमयति ।
 
आदेशे — अयमह महारण्यं गच्छतु ।
 
प्रशंसायाम् - अह ! बालो वक्ति । (उत्कृष्टं वक्ति, इत्यर्थः ।)
 
-
 
()
 
क्षेमे—'अयमह जीवतु शाश्वतीः समाः ' ।
 
अत्र क्षेप एवाचारातिक्रमः । आदेशनियोगावभिन्नार्थको । एवं
प्रशंसैव पूजा । "आचारातिशये – 'अत्यह तदिन्द्रोऽमुच्यत, देवो हि.
स: (शतपथब्राह्मणे.) " इति वाचस्पत्यम ।