2023-07-15 11:44:55 by ambuda-bot

This page has not been fully proofread.

भस्तु
 
73
 
सत्तायाम्
– अस्तिक्षीरा गौ: । ( विद्यमानक्षीरेत्यर्थः ।) 'आस्तिक',
आस्तीकः । 'अतिथिर्बालकश्चैव राजा भार्या तथैव च । अस्ति नास्ति न
जानन्ति देहि देहि पुनः पुनः ॥' (चाणक्ये ) ।
 
'अस्तिसिचोऽपृक्ते' ( 7-3-97) इत्यत्रापि 'अस्तिसिच: ' इत्यस्य
'विद्यमानसिचः इति व्याख्यान सिद्धान्तकौमुद्यादिषु दृश्यते । 'अस्त्याह
कालसामान्ये तिङन्तप्रतिरूपकम् इति त्रिकाण्डशेपः ।
 
9
 
(136)
 
"अस्तु निषेधासूयाङ्गीकारयोः " (स्व. ति. प्र.)
 
निषेधे – अस्तु साम्ना । अस्तुङ्कारः ।
 

 
=
 
असूयाङ्गीकारे – रवमस्तु, को नाम दोपः । असूयापूर्वकोऽङ्गीकार :-
अनूयाङ्गीकारः । असवातो: लोटप्रथमपुरुषैकवचने रूपमेत्रम् । तस्य
स्वरादिपाठादव्ययत्वम् । अस्य पीडा प्रतिक्षेप प्रकर्ष - प्रशंसा लक्षणादयो-
ऽयर्था: वाचस्पत्ये प्रतिपादिताः । उदाहरणानि यथासम्भवमूहयानि ।
वाङ्मयार्णवेऽपि 'अस्तु स्यादभ्यनुज्ञानेऽप्यसूयापीडयोरपि । प्रतिक्षेपे
 
66
 
प्रशंसायां प्रकर्षे लक्षणेऽपि च " इति अस्यार्थाः परिगणिताः ।
 
1.
 
"
 
'अस्तिनास्तिदिष्टं मतिः ( 4-4-60) इति ठक् । अस्ति
परलोकादिकमिति मतिर्यस्य स आस्तिकः । प्रत्ययस्य कित्वादादि-
वृद्धिः । आस्तिक एव आस्तीकः । 'अन्येषामपि दृश्यते' *(6-3-137)
इति मध्यमवर्णस्य दीर्घः । आस्तीकः = ऋषिविशेषः । अल निपाताव्य-
योपसर्गवृत्तौ तिलकेनोदाहृतम् 'अस्त्यत कञ्चित् पश्यसि विद्वांसम् ।'
इति । अस्थायमर्थ:-
:- अस विद्यमानं विद्वांसं पश्यसीति । अव्ययत्वादत
द्वितीयाविभक्त्यर्थ कत्वम् 'अस्ति' इत्यस्येति ज्ञेयम् ।