2023-07-15 11:44:54 by ambuda-bot

This page has not been fully proofread.

असो
 
नाम — क्षोदे कृतेऽर्थशून्यत्वमेव । 'शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि
 
-
 
71
 
पुत्रक !' इत्यत्र तु कथंचिद्युष्मदर्थकत्वम् । केचित्त एकेन 'असि' इति
प्रयोगेनैव त्वमित्यर्थे, अथवा क्रियायाश्च लाभे सति, असि इति त्रिः प्रयोगो-
ऽत्रापि वाक्यालङ्कार एवेत्याहुः ।
 
(132)
" असे "
 
एतदन्तमव्ययं स्यात् । तुमुनर्थकोऽयं प्रत्ययः छन्दस्येव प्रयुज्यते ।
एजन्तकृत्त्वाव्ययत्वम् । 'क्रत्वे दक्षाय जीवसे' (ऋक्. 1-36-14) जीवसे
• जीवितुमित्यर्थः ॥ छन्दस्येव ।
 
=
 
एवं 'असेन्' इति
 
प्रत्ययान्तमप्यव्ययसंज्ञकं बोध्यम् । प्रत्ययस्य
 
नित्त्वात 'नित्यादिर्नित्यम् (6-1-197) इति स्वरविशेष: (आधुदासः)
प्रकृतेर्भवति इति विशेषः ।
 
,
 
(133)
 
असौ " (साक्षात्.)
 
अदश्शब्दार्थेऽव्ययमिदं साक्षात्प्रभृतिषु (1-4.74) कश्चित् पठयते ।
'असौनामायमिदंरूपः' इति शतपथब्राह्मणे प्रयुक्तं च । साक्षात्प्रभृतिषु
पठितत्वात् कृञो योगे गतिसंज्ञायाम्, 'कुगतिप्रादय:' (2-2-18) इति
समासे ल्यपि असौकृत्य इति भवति । 'अग्नौ' इति पठितस्य एवं पाठभेद
इति केचित् ।