2023-07-15 11:44:55 by ambuda-bot

This page has not been fully proofread.

असि
 
(130)
 
"असामि " (चा.)
 
19
 
पूर्णतया इत्यर्थः । 'सामि' इत्येतदर्धार्थकमव्ययम् तस्यैव नञ्तत्पु -
रुषे रूपमेवम् । अव्ययत्वनिबन्धनानां सर्वेषामपि कार्याणां सम्पादनाय स्वरादिषु
पाठः । 'उत यो मनुष्येषु आ यशश्चक्रे असामि आ ।' (ऋक् 1-25-15)
 
एवं असाक्षात् इत्यस्यापि 'साक्षात्' इत्यस्य विपरीतार्थे चादिपाठा-
दव्ययत्वं बोध्यम् ।
 
90
 
-
 
अत्रेदमवधेयम् – शब्दकल्पद्रुम वाचस्पत्यादिषु कोशेषु सर्वेषा-
मध्यव्ययानां मञ्समासे निदर्शितया रीत्या पुनः पृथगव्ययत्वं चादिषु स्वरादिषु
बा पाठपरिकल्पनेनोदाहरणप्रदर्शनपुरस्सरं पाठो लक्ष्यते । अस्माभिस्तु विस्तर -
भिया तत्तदव्ययानां स्वरूपमात्र प्रदर्शने ऐदम्पर्येण तेषामत्रोपादानमनाइतम्-
इति ।
 
-
 
(131)
 
"असि " ( तिङन्तप्रतिरूपकम् )
 
'त्वम्' इत्यर्ये, वाक्यालङ्कारे चैतदव्ययं चादिषु द्रष्टव्यम् । 'अस
भुवि ' इत्यत्य धातोर्लटि मध्यमपुरुषैकवचने 'असि' इति सम्पते ।
तस्य प्रतिरूपकमेतदिति बोध्यम् । भोजस्तु 'युष्मदर्थानुवादे' इत्याह ।
त्वमर्थे—— बाल्यादमित्रमस्यासि –' । अत्र 'असि' इति त्वमर्थे प्रयुक्तम् ।
वाक्यालङ्कारे—' वेत्स्यसि पार्थिव ! त्वमसि सत्यमभ्यथाः ।' इति । अत्र
' त्वम्' इति प्रयुक्तत्वात् पुनरसि इति वाक्यालङ्कार एक । वाक्यालङ्कारत्वं