2023-07-15 11:44:54 by ambuda-bot

This page has not been fully proofread.

" –' सम्प्रति' इति प्रादिसमुदायरूपः शब्दः । स एव नसम्प-
र्कात् 'असम्प्रति ' —" इति गणरत्नमहोदधिः । अयोग्ये काले, अनु-
पस्थिते काले, अयुक्त इति च अस्यार्थ: । 'यचैव संप्रति दद्मो, यचैव
असंप्रति : (शतपथब्राह्मणे) ।
 
6
 
असकृत्
 
(128)
 
'असम्प्रति " (तिष्ठद्गु)
 
अस्यैव स्वाथिंकेऽण्प्रत्यये असांप्रतम् इत्यपि भवति । यथा -
विषवृक्षोऽपि संवर्ध्य स्वयं च्छेत्तुमसांप्रतम् ।' (कुमारसंभवे 2-55)।
असम्प्रति असांप्रतम् इत्युभावपि तिष्ठद्गुगणे ( 2-1-17) द्रष्टव्यौ ।
वर्धमानस्तु 'असाम्प्रतम् इत्येतत् स्वरादित्वेनाङ्गीचकार ।
 
19
 
66
 
69
 
>
 
(129)
 
असकृत् पौनःपुन्ये " (स्व.)
 
'सकृत्' इति सदैकवारार्थयोः स्वरादिषु पठयते । तस्यैष ननुप-
सृष्टात् असकृत् इति पुन: स्वरादिषु पाठ: । 'एकस्य सकुच्च' (5-4-19)
इति क्रियाभ्यावृत्तिगणने वर्तमानस्य एकशब्दस्य सुच्प्रत्ययः, प्रकृतेः सकृत्
इत्यादेशश्च विधीयेते । अत्र क्रियाभ्यावृत्तिरसम्भवान्न गम्यते । अस्य च
कृत्वसु प्रत्ययापवादत्वं बोध्यम् । 'कृत्वोऽर्था:' (वा. 1-1-38) इति वार्तिके
कृत्वोऽर्थप्रत्ययानां परिगणितत्वात्, 'तद्धितश्चासर्वविभक्तिः' (1-1-38),
इति अव्ययसंज्ञा । 'असकृदेकरथेन तरस्विना—' इति रघुः (9-23)।