2023-07-15 11:44:54 by ambuda-bot

This page has not been fully proofread.

अवस्
 
67
 
द्रुमः । निश्रये – 'अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया: ' (भर्तृ-
हरि: 3-13)। अशक्यनिराकरणार्थेऽपि प्रयुज्यते, तद् यथा—'अवश्य-
भाविन्यर्थे वै सन्तापो नेह विद्यते ।' (भारते शान्तिपर्वणि) । अवश्य-
पाच्यम् । आवश्यकः । अनायत्ततायां तु त्रिलिङ्गत्वमस्य यथासम्भव बोध्यम् ।
 
(123)
 
अवसे" (कृ.)
 
अवधातो:, 'तुमर्थे सेसेनसे असेन्– ( 3-4-9) इत्यसेन्प्रत्ययः ।
 
"
 
आयात्विन्द्रोऽवसे
 
उप ---"
 
66
 
एजन्तकृत्त्वाव्ययत्वम् । अवसे - अवितुमित्यर्थः
 
(यजु: 2-0-47 )। छन्दस्येव ।
 
6
 
(124)
 
"अवम् बहिरित्यर्थे " (स्व. त.)
 
अवो गच्छति । बहिर्गच्छतीत्यर्थः' । 'पूर्वाधरावराणामसि पुरधव-
श्चैषाम् ' (5-3-39) इति प्रथमापञ्चमी सप्तम्यर्थेषु अवरशब्दादसिप्रत्यये
प्रकृतेरवादेशे च रूपमेवम् । असर्वविभक्तितद्धितान्तत्वाद व्ययत्वम् । अवो
रमणीयम्, अव आगतः, अवो वसति, इति क्रमेण विभक्तित्रयेऽप्युदाहरणम् ।
 
1.
 
अल बाहुलकात् कृदन्ते भाविन्शब्दे परे अवश्यमो मकारस्य लोपः ।
 
2.
 
'ण्य आवश्यके' इति पचते: कुत्वनिषेधः ।
 
C
 
(वा. 6-3-109) इति अवश्यमो मकारस्य लोपः।
 
3. 'अव्ययानां भमाले-' (वा. 6-4-144) इति टिकोपः
 
लुम्पेदवश्यमः कृत्ये
 
>