2023-07-15 11:44:54 by ambuda-bot

This page has not been fully proofread.

66
 
अवश्यम्
 
(120)
 
"अवचक्षे अवख्यातव्यमित्यर्थे" (कृ.)
 
अवपूर्वकात् 'चक्षिङ् व्यक्तायां वाचि' इत्यस्माद्धातोः 'अवचक्षे 'च'
(3-4-15 ) इति एश्प्रत्यये रूपमेवम् । 'अव्ययकृतो भावे' (भाग्ये
3 - 4 - 9 ) इति भाष्यात् भावार्यक: प्रत्ययोऽयम् । प्रत्ययस्य शित्त्वेन सार्व-
कृन्मेजन्त: ' (1-1-39) इति अव्ययत्वम् ।
धातुकत्वात् ख्याञादेशो न ।
'रिपुणा नावचक्षे' (ऋ. 4-58-5) इति प्रयोगः । अवख्यातुमित्यर्थः ।
 
(
 
(121)
 
अवरस्तात् " (त.)
 
अधोभागार्थेऽव्ययमिदम् । प्रथमापञ्चमी सप्तमी वृत्तेरवरशब्दात् अस्ताति-
प्रत्ययः । तद्धितश्वासर्वविभक्तिः' (1.1-38) इत्यव्ययत्वम् । प्रथमान्ते
यथा- -अवरस्तात् रमणीयम् । पञ्चम्यां यथा – अवरस्तात् आगतः ।
सप्तभ्यन्तात् – अवरस्तात् वसति ।
 
-
 
एवम्, अवस्तात् इत्यप्यस्तातिप्रत्ययेऽव्ययं वर्तते । प्रयुज्यते च
अवस्तात् स्वर्ग लोकं प्रापयन्त: ' (शतपथब्राह्मणे) इति । अत्र ' विभाषा -
'अव' इत्यादेशोऽ-
बरस्य' (5-3-41) इति विकल्पेन अवरशब्दस्य
स्तातिप्रत्यये परत इति विशेषः ।
 
6
 
66
 
(122)
 
अवश्यम् निश्रये" (स्वरादिः)
 
अवपूर्वकाद् श्यैङ्घातोरौणादिके डमुप्रत्यये, स्वरादिषु पाठादव्यय-
त्वम् । नञ्पूर्वकाद् वशघातोर्बाहुलकाद् यत्प्रत्ययेऽव्ययसंज्ञेति शब्दकल्प-
66