This page has not been fully proofread.

तृतीयः परिच्छेदः
 
यन्त्रमुक्तेन बाणेन प्रहतः पतितो मृगः ।
 
अपजहुः किरातास्तं किशोरं द्वीपिना सह ॥ १०५ ॥
 
मृत्युहस्तादयं रक्ष्यो भवता भर्तृदारकः ।
ज्यायानप्यस्य मत्पुत्रीकरे किं नु करोत्यसौ ॥ १०६ ॥
 
इत्याकर्ण्य ततस्तूर्णं गच्छन् प्रच्छन्न मन्तिकात् ।
कुमारवधगृध्नूनां तेषामशृणवं गिरम् ॥ १०७ ॥
भिद्यतामयमस्त्रौधैर्मज्यतां वा महाहदे ।
 
अथवा शस्त्रकृत्ताङ्गः क्षिप्यतां चण्डिकागृहे ॥ १०८ ॥
 
इत्थं जल्पत एवामूनभ्येत्य द्रुतमभ्यधाम् ।
शिशोरस्य वधे कल्पं जानामि स्फुटमित्यहम् ॥ १०९ ॥
ततः कुतूहलाविष्टैः पृष्टस्तान हमत्रत्रम् ।
गुणवानुपहारोऽयं तस्मादुपदिशामि वः ॥ ११० ॥
 
अक्षतस्वस्थ सर्वाङ्गं भूषयित्वा कुमारकम् ।
यतध्वं विन्ध्यवासिन्यै दातुं मरकशान्तये ॥ १११ ॥
हृतं पापं प्रसन्नास्मीत्युक्ते प्रत्यक्षया तथा ।
अष्पृष्ठालोकिनस्तावद् दत्वैवं गम्यतामिति ॥ ११२ ॥
अथाहं निर्गतश्छन्नं निषण्णश्चण्डिकागृहे ।
निशीथे शिशुमादाय प्राप्तं व्याघमलक्षयम् ॥ ११३ ॥
स सर्वं पूर्वनिर्दिष्टं निर्विचारमचेष्टत ।
देवतेव गृहीत्वैनं प्रागुक्तां गिरमब्रवम् ॥ ११४ ॥
गते तस्मिन्निवृत्तस्ते प्रजापालाय बालकम् ।
अर्पयित्वा यथाकामं गमिष्यामीत्युपस्थितः ॥ ११५ ॥
 
इत्याकर्ण्याब्रवीद् राजा विचित्रा विधिवृत्तयः ।
अहो खल्वप्रतक्योंऽयं पुत्रयोर्मे समागमः ॥ ११६ ॥
कथं नु रत्नोद्भवकामपालयो-
वयस्ययोस्तस्य च सत्यशर्मणः ।
 
4
 
२५