This page has not been fully proofread.

अवन्तिसुन्दरीकथासारे
 
अनामयं नृपस्येति श्रुत्वाश्वस्तः कुमारकम् ।
 
चित्तापहाराद् भूपस्तम् अपहाराह्वयं व्यधात् ॥ ९३ ॥
 
( उपहारव मंत्पित्तिः ।)
ततोऽन्यं तत्समाकारं कृत्वा हस्ते कुमारकम् ।
 
प्रज्ञातो मुनिरभ्येत्य प्राप्तातिथ्यः समभ्यधात् ॥ ९४ ॥
तीर्थयात्रागतः सोऽहं भागीरथ्यामथाप्लुतः ।
अकिञ्चनत्वान्निः शङ्कं न्यवर्ते वनवर्त्मना ॥ ९५ ॥
 
तत्रारण्ये बहुव्यालं विरलव्याकुलप्रजम् ।
मध्याह्ने गमनश्रान्तः कपि ग्राममभ्यगाम् ॥ ९६ ॥
तत्रोन्मत्त इवाकृत्या चैत्यवृक्षतले स्थितम् ।
कण्डूखण्डित सर्वाझं वृद्धग्रामीणमैक्षिषि ॥ ९७ ॥
तस्मादऋगवं ग्रामं मरकक्षीणमानुषम् ।
यद्यदुक्तं जनैस्वतत् कुर्वाणमघशान्तये ॥ ९८ ॥
ततः किञ्चिदतिक्रामन्नदूरे जरतीं स्त्रियम् ।
अद्राक्षं तत्क्षणक्षोदक्षरितक्षतजोक्षिताम् ॥ ९९ ॥
कासि भद्रे ! किमित्येनाम् अप्राक्षं भृशमक्षमाम् ।
सापि मगौरवक्षिप्तक्षतोपद्रवमत्रवीत् ॥ १०० ॥
भद्र ! संश्चेपतो वक्ष्ये विदेहाधिपतिर्वने ।
कस्यापि हेतोः प्रस्थाता निरुद्ध प्रतिरोधकैः ॥ १०१ ॥
सार्थभङ्गे परिभ्रष्ट कान्दिशीका दिवानिशम् ।
 
शिशुना च करस्थेन क्रन्दन्ती वनमभ्रमम् ॥ १०२ ॥
 
अटव्यामटनश्रान्ता शार्दूलेनास्मि विक्षता ।
करभ्रष्टं कुमारं च प्रहर्तुमयमुद्यतः ॥ १०३ ॥
तत्रैव शबरन्यस्तं धेनुकाशव सन्निधौ ।
 
बाणयन्त्रं मृगान् हन्तुं तदनेनावघट्टितम् ॥ १०४ ॥