This page has not been fully proofread.

तृतीय: परिच्छेदः
अस्त्रपञ्जरमध्यस्थो राज्ञा चम्पेश्वरेण च ।
साकमेकरथेनासौ मागधेनापवाहितः ॥ ८१ ॥
स तु घोरं पराक्रामन् दिव्यास्त्रेणावचूर्णितः ।
प्रत्यभिज्ञापि नाङ्गेषु मगधाधिपतेरभूत् ॥ ८२ ॥
मालवेन्द्रः पुरो राज्ञां स एवाव्याजपौरुषः ।
जितवान्नाहमित्युक्त्वा तत्याज निजमायुधम् ॥ ८३ ॥
सुहृद्विरहविद्धोऽपि प्रव्रज्यातो निवर्तितः ।
यमौ च जनयाञ्चके तनयौ जनकेश्वरः ॥ ८४ ॥
 
भद्रवाहनमादाय मालवादश्वमागतः ।
 
ज्येष्ठपुत्रैरवष्टब्धान् विदेहानशृणोत् पथि ॥ ८५ ॥
बलैकदेशमादातुं स्वत्रीयाम् सुम्हनाथतः ।
अवक्रेण पथानेन क्रान्तः किं कुशली न वा ॥ ८६ ॥
माता मे मन्दभाग्यायाः करे निक्षिप्य बालकम् ।
मार्गे स्वयं कनीयांं भर्तृदारकमग्रहीत् ॥ ८७ ॥
योऽयमाधोरणे' भन्नः प्रियो मे पार्श्वतो गतः ।
कुमारस्तं गजं दृष्ट्वा रुरोदारोहणेच्छया ॥ ८८ ॥
अज्ञानादहमप्येनमारोहितवती शिशुम् ।
सार्थभङ्गे हते तस्मिन् परिभ्रश्यापतद्भुवि ॥ ८९ ॥
सोऽयं दीर्घायुरेषाहम् एवं भूनास्मि विह्वला ।
ततः स्निग्धं गृहीत्वैनं प्रत्यङ्गं परिषस्वजे ॥ ९० ॥
सेनापतिश्च तं हत्वा निवृत्तः प्रेक्ष्य दारकम् ।
मत्करे विन्ध्य सेनायै सावं प्रेषितवानिति ॥ ९१ ॥
श्रुत्वा तौ दम्पती भग्नो विदेह इति मूर्च्छितौ ।
आकुलेन किरातेन यथावत् कथितं पुनः ॥ ९२ ॥
 
1.
 
णो. क.
 
२३