2023-02-26 04:07:52 by ambuda-bot
This page has not been fully proofread.
२२
अवन्तिसुन्दरीकथासारे
शयरेण सहोपेत्य प्रहा प्राह स्म भूपतिम् ।
कुमारानुचरत्वेऽसावनुरूप इवाकः ॥ ६९ ॥
अस्यागमनमप्यस्माद् विज्ञेयमिति भूभुजा ।
पृष्टः शम्बरवृद्धस्तं प्रणनामाभ्यधत्त च ॥ ७० ॥
अस्त्यस्मिन् विन्ध्यसेनायाः कश्चिन्मातृष्वसुः पतिः ।
नातिदूरे किरातेन्द्रस्तन्मातुलमत्रैतु माम् ॥ ७१ ॥
ते वयं मैथिलं यान्तमाकर्ण्य वनवर्त्मना ।
निरोद्धुं दत्तसङ्केताः प्रत्यतिष्ठाम शत्रिणः ॥ ७२ ॥
प्रवृत्ते च ततः सार्थे किरातैरामिषेप्सुभिः ।
भग्नप्राये बले राजा चिराय समयुध्यत ॥ ७३ ॥
मां च कृत्वा किरातेन्द्रः सारसञ्चयरक्षणे ।
लुप्त शेषेण सैन्येन प्रयान्तं नृपमभ्ययात् ॥ ७४ ॥
निवृत्तस्त्वहमद्राक्षं विक्षताङ्गीमथाङ्गनाम् ।
अब्रवीन्मामयं रक्ष्यो मर्तृदारक इयसौ ॥ ७९ ॥
तदाकर्ण्याहमभ्यर्णे करिकर्णान्तरे शिशुम् ।
आश्चर्यायुषमद्राक्षं दैवादक्षतविग्रहम् ॥ ७६ ॥
तमादायोपसृत्यैनां कासि भद्रे ! क्व यास्यसि ।
कस्यायं गम्यते कस्माद् इत्युक्ता प्रत्युवाच माम् ॥ ७७ ॥
आर्यस्यापि श्रुतिं यातो विदेहाधिपतिर्नृपः ।
प्रहारवर्मा नाम्नासौ यन्मित्रं मगधेश्वरः ॥ ७८ ॥
देव्योरपि तथैवासीत् सौहृदय्यमथैकदा ।
सह भत्री सखीं द्रष्टुं सा देवी मगधान् ययौ ॥ ७९ ॥
कालेऽस्मिन् मगधेन्द्रस्य मालवेनाहवोऽभवत् ।
तत्र क्षत्रक्षयं कुर्वन् साह्यं चक्रे च नः प्रभुः ॥ ८० ॥
1. सानुजं बल. ख.