This page has not been fully proofread.

तृतीयः परिच्छेदः
विदितस्वप्नवृत्तान्तैरमात्यैः सह भूपतिः ।
प्रहर्षपरवानास्त प्रशस्तापत्यसम्पदा ॥ ५७ ॥
 
अथाचिरेण रोचिष्णुं मृगेन्द्रमिव केसरी ।
दधे वसुमती गर्भ दिनेशं द्यौरिवामला ॥ ५८ ॥
 
चक्रवर्त्य विसंवादिस्वप्नदोहदलक्षणा ।
विक्रमैकरसा दध्यौ गर्तवज्जगतां त्रयम् ॥ ५९ ॥
 
चतुर्णामप्यमात्यानां कलत्राणि पुरोधसः ।
गर्भ बभ्रुस्तदैवासीद् विन्ध्यसेनानि गर्भिणी ॥ ६० ॥
 
सा सिंहदमनं नाम प्रासूत सुतमूर्जितम् ।
देव्यास्तु स्वसुतोत्पत्तौ प्रीतिः स्यान्नैव तादृशी ॥ ६१ ॥
 
ततो वैजनने मासि प्रशस्ते महिषी दिने ।
अस्त ग्रहवर्गेऽपि स्वोच्चस्थानं गते सुतम् ॥ ६२ ॥
 
प्रनृत्तनरनारीकः पुत्रजन्ममहोत्सवः ।
पूर्णपात्रीकृताशेषद्रव्यराशिरवर्धत ॥ ६३ ॥
वामदेवोऽपि दृनं दिव्याकारं कुमारकम् ।
मेने लक्षणसम्पन्नं चक्रवर्तिनमेव तम् ॥ ६४ ॥
विन्ध्यसेनापि सानन्दमाकर्ण्य द्विगुणोत्सवा ।
आदायात्मजमापेदे राजपुत्र
दिया ॥ ६५ ॥
यथार्थया भविष्यन्त्या राजवाहन संज्ञया ।
अलञ्चकार तं भूयः पुरोयायी पुरोधसाम् ॥ ६६ ॥
 
सुमतेः प्रमतिर्नाम सुश्रुतस्यापि विश्रुतः ।
मित्रगुतः सुमित्रस्य मन्त्रगुतः सुमन्त्रजः ॥ ६७ ॥
 
पुरोधसः सोमदत्त इत्यासन् पञ्च सूनवः ।
 
(अपहारवर्मोत्पत्तिः ।)
 
जननी विन्ध्यसेनायाः पुनरादाय दारकम् ॥ ६८ ॥
 
२१