This page has not been fully proofread.

२०
 
अवन्तिसुन्दरीकथासारे
 
इयं हि नः सखी साध्वी निषादाधिपतेः प्रिया ।
तनयार्थमिहायाता व शुरेणामुना सह ॥ ४४ ॥
तं निशम्योपवेश्यैनाम् आसीनस्तदनन्तरम् ।
बनेचर करेऽपश्यन्महार्थं मणिकङ्कणम् ॥ ४५ ॥
 
ततस्तं पश्यतस्तस्य शबरस्याश्रुबिन्दवः ।
पेतुः किमिदमित्येनं पप्रच्छ पृथिवीपतिः ॥ ४६ ॥
ततः शबरवृद्धस्तं मौलिना भूतलस्पृशा ।
प्रणम्यामिदघे देव ! श्रूयतामञ्जुकारणम् ॥ ४७ ॥
चण्डकृष्ण इति भ्राता धौरेयः क्रूरकर्मणाम् ।
ममासीत् तेन बन्धूनामहमेवःवशेषतः ॥ ४८ ॥
तस्मिन् काले तपस्तप्तुं प्राप्तः केनापि हेतुना ।
रिपुञ्जयो महाभागस्तमहं पर्यचारिषम् ॥ ४९ ।
स सिद्धार्थश्चिरं स्थित्वा गच्छन् मुनिजनेच्छया ।
निहत्य भ्रातरं मामप्यरण्याधिपतिं व्यधात् ॥ ५० ॥
अनुगच्छन्तमर्थैर्माम् अभिपूज्य व्यसर्जयत् ।
तत्प्रसादातिभारोऽयमनर्धवलयं मम ॥ ५१ ॥
 
तदाकृत्या च देवस्य खरेण चरितेन च ।
तस्य स्मृत्वा निपेतुर्भे नृशंसस्याश्रुबिन्दवः ॥ ५२ ॥
 
इत्यादिपितृसंबन्धकथयाध्यास्य भूपतिः ।
विन्ध्यसेनां च विस्रब्धां विसृज्य स्वाश्रमं ययौ ॥ ५३ ॥
ततः पत्या सह व्याघ्रदमनाख्येन साधुना ।
विन्ध्य सेनामुपेतां तौ सत्कारैभ्यनन्दताम् ॥ ५४ ॥
तौ मलिम्लुचदम्पत्यौ (त्यो ? ) कालेन नृपदम्पती ।
बबन्धतुः परां मैत्रीमहार्यस्त्रेहनिश्चलाम् ॥ ५५ ॥
यामिन्याश्चरमे यामे स्वप्ने देवी कदाचन ।
बहुद्वीपार्णवाकीर्ण जगद्गोलं तु जग्रसे ॥ ५६ ॥