This page has not been fully proofread.

अवन्तिसुन्दरीकथासारे
 
ततो वितथ इत्यस्माद् भूमन्युरभवत् ततः ।
बृहत्क्षत्रस्ततो हस्ती तत्सूनोरजमीढतः ॥ २२ ॥
 
ऋक्षः संवरणस्तस्मात् कुरुः पश्चात् सुधन्वनः ।
सुद्दोत्रस्तत्सुत वैद्यः कृतकोऽथ बृहद्रथः ॥ २३ ॥
ततः कुशाग्रर्षभ पुष्पवन्तः
सुधन्वदवख्यजरातनूजाः ।
 
सोमापिनामा सहदेवसूनुः
 
श्रुता निरमित्रः क्रमेण ॥ २४ ॥
 
सुक्षेत्रनाम्नो निरमित्रपुत्राद्-
बभूव सूनुर्बृहदाद्यकर्मा ।
सेनाजिदित्यस्य रिपुञ्जयाख्यो
 
विभुः शुचिः क्षम्य इति क्रमेण ॥ २५ ॥
 
ततः सुवृ॒त्रस्त्वथ नेत्रनामा
 
नृपः सुपूर्वोऽप्यथ सुश्रुताख्यः ।
दृढायसेनो नयनस्ततोऽभूत्
 
सुमत्यभिख्यः सुचलस्ततोऽपि ॥ २६ ॥
 
सुनेत्रजः सत्यजिदित्यमुष्मात्
 
स विश्वजित्तस्य रिपुञ्जयोऽभूत् ।
इत्येवमत्यद्भुतकीर्तिभाजः
 
सोमान्वये भूपतयो बभूवुः ॥ २७ ॥
 
स चचार तपो घोरं विनष्टप्रायसन्ततिः ।
भक्त्या परमया देवं ववन्दे जलशायिनम् ॥ २८ ॥
कदाचिन्मुदितः स्वप्ने जगादैनं जनार्दनः ।
प्रीतोऽस्मि वत्स ! मा मैवं तपसि व्यसनं कृथाः ॥ २९ ॥
 
सुतमुज्जयिनीभर्तुर्जेतारं जगतीपतिम् ।
आमर्दकविमर्देऽपि निर्विकारमवाप्स्यसि ॥ ३० ॥
 
यस्य प्रद्युम्न साम्बावण्यात्मत्वं गमिष्यतः ।
इत्युक्तः स तथा चक्रे समीपे च तदाश्रमः ॥ ३१ ॥