2023-02-26 04:07:51 by ambuda-bot
This page has not been fully proofread.
तृतीय: परिच्छेदः
इत्यादि वदतामेव प्रभाता च विभावरी ।
शल्योद्धारक्रियां चक्रुस्तस्यायुर्वेदपारगाः ॥ १० ॥
विविधौषधसंपर्कविहितव्रणरोपणः ।
तपोवनं स तैः सार्धं प्रपेदे नर्मदातटे ॥ ११ ॥
न केवलं जलारण्ये प्रसन्नाः श्वापदा अपि ।
यत्रासन् मुनयो नैव तरखोऽप्यविपल्लत्राः ॥ १२ ॥
निवारितपरीवारो विवेश च विशां पतिः ।
च
निर्मितं निर्ममत्वस्य विश्रमार्थमिवाश्रमम् ॥ १३ ॥
तत्र वेत्रासनासीनं मुनीन्द्रैः परिवारितम्
वामदेव इति ख्यातं तपोराशिं ददर्श सः ॥ १४ ॥
विनयेन नमस्यन्तं मुनिस्तं मुदिताशयः ।
समभिज्ञाय सर्वज्ञः समार्थ पर्यपूजयत् ॥ १५ ॥
स्मय मानो मुनिस्तस्यै ततस्तदृषिपङ्कये ।
कथयामास शुश्रूषा यदि वः श्रावयाम्यहम् ॥ १६ ॥
हिरण्मयाण्डप्रभवो जगद्योनिर्मुनिः पुरा ।
हरिनाभिसरोजन्मविहारी भगवानभूत् ॥ १७ ॥
तस्मादत्रिरभूदत्रेः सोमः सोमाद् बुधो बुधात् ।
पुरूरवास्ततोऽप्यायुरायुषो नहुषोऽभवत् ॥ १८ ॥
ययातिरित्यतः पूरुः पूरोश्च जनमेजयः ।
ततः क्रमेण प्राचिन्त्रान् प्रवीराख्यमनस्यवः ॥ १९ ॥
अथामयदशुन्धुभ्यामभूद् बहुविधः परः ।
ततः शय्यात्यहम्यातिरुद्रावाख्योग्रतेजसः ॥ २० ।॥
अनन्तरस्त्वन्तिनारस्तस्यादिलिल' इत्यभूत् ।
इलिलादपि दुष्षन्तो भरतश्च ततोऽभवत् ॥ २१ ॥
2. रं. र. ख. ग.
1. न्येव क.
3