This page has not been fully proofread.

द्वितीय: परिच्छेद:
 
तस्यैकादशमद्याहः कृतमङ्गलसंज्ञकम्' ।
उपास्महे महाभागं वयं चार्मकसेवया ॥ ९२ ॥
2 स्वप्ने च खेचरेणाहं नीयमानं कुमारकम् ।
दृष्टवानस्मि कष्टाय दुर्निमित्तपरम्परा ॥ ९३ ॥
इत्युक्तमात्रे तत्रासीन्नीतः केनापि बालकः ।
हंसरूपेण पुंसेति स्त्रैणाक्रन्दरवो महान् ॥ ९४ ॥
हाहाकृति जने राज्ञी विलप्य बहु विह्वला ।
कुमारहरणोद्विग्नानमात्यानित्यभाषत ॥ ९५ ॥
साहं खलु महाराजशासनात् प्रसवावधि ।
आराधयितुमानीतास्म्यवन्ध्यां विन्ध्यवासिनीम् ॥ ९६ ॥
तत्र चैवमपुण्याया नष्टः खलु कुमारकः ।
दुःखदग्धमिमं देहं त्यक्ष्यामि वनपावके ॥ ९७ ॥
आर्यपुत्राय नेतत्र्यो युष्माभिरयमञ्जलिः ।
इत्युदीरितसङ्कल्पां प्रत्यवोचत सुश्रुतः ॥ ९८ ॥
अविषह्यतमः शोको यदि सत्यमिदं भवेत् ।
तथालक्षणसम्पन्नः कथं नश्येत् स बालकः ॥ ९९ ॥
 
अमानुषतया छन्नोऽप्यात्मानं दुर्गयत्यसौ ।
तद्वैपश्चितीं बुद्धिं मा त्वं प्राकृतवत् कृथाः ॥ १०० ॥
 
तथोक्ता निशि गाढायां निगूढव्यवसायिनी ।
यत्रास्ते नृपतिस्तस्मिन्नुद्वन्धनधिया ययौ ॥ १०१ ॥
स्त्रीभावादार्यपुत्रेति प्रलपन्तीं प्रियां नृपः ।
 
4 उपवीक्ष्यास्फुटां वाचं मा साहसमिति व्यधात् ॥ १०२ ॥
 
श्रुत्वा पत्युरिवारावं दत्तदृष्टि: किमप्यसौ ।
 
हवा
 
दीप इति व्यक्तं व्याजहार मुहुर्भिया ॥ १०३ ॥
ततो दीपप्रभाव्यक्तरुधिरोक्षितविग्रहम् ।
 
मृतकल्पमपश्यत्तं शयानं भूतले पतिम् ॥ १०४ ॥
 
1.
 
2.
 
संस्क्रियम् . क.
 
सुप्ते. ग.
 
3.
 
कष्टा त्र.
 
ग.
 
4. उपलक्ष्य. ग.
 
१५