This page has not been fully proofread.

१४
 
I.
 
अवन्तिसुन्दरीकथासारे
 
हेमकूटाख्य मारूढो हरितरत्नमनुत्तमम् ।
यत्सहाय स्त्वयं मेने जय्यमेव जगत्त्रयम् ॥ ७९ ॥
ततश्चतुर्विधैरङ्गैरुभयोरपि सेनयोः ।
 
अकालप्रलयाकारः स बभूव समागमः ॥ ८० ॥
क्रमेण च रजोराशौ प्रशान्ते गगनस्पृशि ।
युयुधाते कृतस्पर्धी मुहुर्भागधमालवौ ॥ ८१ ॥
 
अतिभारतमत्युग्रमतिरामायणं रणम् ।
 
यद् बभूव तयोस्तस्माद् दूरे तारामयाद्यपि ॥ ८२ ॥
मालवेन्द्रगजे भन्ने हेमकूटेन तत्क्षणम् ।
वैरवद्धावयुध्येतां तुरगद्वयवर्तिनौ ॥ ८३ ॥
हते हयद्वये तस्मिन् निवर्त्य रथवर्तिनौ ।
उभावपि कृतोत्साहौ न तौ जेतुमशक्नुताम् ॥ ८४ ॥
मानसारस्ततो मानी चिन्तयन्नन्तकद्विषम् ।
तत्प्रसा' दाहृतं खड्गं चिक्षेप मगधेश्वरे ॥ ८५ ॥
तमेष लवशः कुर्वन्नपि शर्वप्रभावतः ।
प्रहृतो जगृहे कीर्त्या त्रैलोक्ये हृदि मूर्छया ॥ ८६ ॥
हत्वा सूतं गते तस्मिन्नन्तर्धानमनन्तरम् ।
शस्त्रक्षत इवाम्भोधौ पपात च विरोचनः ॥ ८७ ॥
नृपचित्त इवात्युग्रे तमोराशौ तमीमुखे ।
हतसारथिमुद्भ्रान्ता विनिन्युस्तुरगा रथम् ॥ ८८ ॥
अतिलङ्घ्य बहून् देशान् कुहचिद् विन्ध्यगहरे ।
असह्य श्रमवैवश्या विजहुर्जीवितं हयाः ॥ ८९ ॥
लब्धसंज्ञः सुमत्यादीन् प्रत्यभिज्ञाय जल्पतः ।
आलापमशृणोदेषां गुल्मान्तरितमित्यसौ ॥ ९० ॥
आर्या: शृणुत निक्षिप्ता राज्ञा सन्ततिरक्षणे ।
वयं खलु सुतं देवी प्रासूत च सुलक्षणम् ॥ ९१ ॥
 
स्व.
 
ग.
 
2. भावागतम्. क.