This page has not been fully proofread.

१२
 
अवन्तिसुन्दरीकथासारे
 
अथैनमयमुत्थाप्य प्रथनप्रवणाशयः ।
 
नराधिपः स्मितं कुर्वन्नुदारतरमब्रवीत् ॥ ५३ ॥
मरणं रमणीयं मे रणवर्जितजीवनात् ।
वने वा नानुबनीयात् किममर्षपरो रिपुः ॥ ५४ ॥
भवद्भिस्तदिनां देवीमादाय सपरिच्छदाम् ।
दुर्गं विन्ध्यवनं गत्वा स्थातव्यं विगतव्यथैः ॥ ५५ ॥
रणयज्ञाङ्गणे प्राणान् परित्यक्ष्यामि दक्षिणाम् ।
अन्यथाहं विनङ्क्ष्यामि ज्वलदचिषि पावके ॥ ५६ ॥
'अलं बहुविधैरस्माननुरुध्य वृथोदितैः ।
वीरव्रतमहं त्यक्तुं पारयामि न सङ्गरे ॥ ५७ ॥
इत्यनुत्तरमन्येषामत्युदार मुदीरयन् ।
 
सत्यसन्धो महीपालः प्रत्यपालयदाहवम् ॥ ५८ ॥
अनिवर्त्यममी भर्तुर्व्यवसायमनिच्छया ।
कृच्छ्रादभ्युपगच्छन्तस्तामादाय वनं ययुः ॥ ५९ ॥
अथाश्चर्याण्यवर्तन्त घोररूपाणि सर्वतः ।
दुर्निमित्तानि भूकम्पप्रभृतीनि धराभृताम् ॥ ६० ॥
तानि दृष्ट्वापि हृष्टेषु रणोद्युक्तेषु राजसु ।
प्रहितो मालवेन्द्रेण ब्राह्मणः कोऽप्युपाययौ ॥ ६१ ॥
 
अथानुरूपं भूभत्र पूजितस्तदनुज्ञया ।
स्तुतिपूर्वं रिपोर्वाचं व्याजहार वचोहरः ॥ ६२ ॥
 
3
 
मन्मुखेन महाभागमित्यूचे मालवेश्वरः ।
वीर ! प्रीत्यनुवृत्त्या त्वय्यधिक स्वेहवानहम् ॥ ६३ ॥
अनन्यसुलभश्रीमद्विकमक्रमशालिने ।
स्पृहयाम्याहवे नित्यं भुजविस्फूर्जिताय ते ॥ ६४ ॥
त्वद्विक्रमरसास्वादी चरणस्पर्शपांसुलान् ।
त्यक्त्वा प्राणान् रणे स्वैरं दिव्यस्त्रीमिरथारमे ॥ ६५ ॥
 
ग. omits the verse 2. कर्तु. ग. 3. रहः. ग,