This page has not been fully proofread.

द्वितीयः परिच्छेदः
 
शस्त्रग्रहणहते तु शत्रावत्र द्वयी गतिः ।
तदाश्रयो वनं वेति निरपायो वनाश्रयः ॥ ४० ॥
देशे काले जयो वा स्यादात्मा सर्वात्मनापि च ।
रक्ष्य इत्येतमेवान्येऽप्यन्वमन्यन्त मन्त्रिणः ॥ ४१ ॥
तच्छ्रुत्वा सत्त्वसंपन्न: स्वच्छान्तःकरणान्नृपः ।
अतिगम्भीरमाचष्ट स्पष्टार्थमधुरं वचः ॥ ४२ ॥
असारः खलु संसार : शरीरमतिमङ्गुरम् ।
मरणेन रणे लभ्यमासंसारस्थिरं यशः ॥ ४३ ॥
तदिमं भूतसङ्घातमुत्सृज्य रणमूर्धनि ।
यशोमयमिहाशासे दिवि तेजोमयं वपुः ॥ ४४ ॥
 
न च पश्यामि नः शेषं कृत्येष्वन्यत्र सन्ततेः ।
अत्रानुभाववान् देव्या गर्भ इत्यनुमीयते ॥ ४५ ॥
इत्थं निश्चलसकल्पं जानन्नपि जनेश्वरम् ।
प्रणयेन पुनर्वाणीममात्यः प्रत्यभाषत ॥ ४६ ॥
देव ! जीवितमिच्छन्ति कातरा एव नेतरे ।
सारेतरच संसारः श्रेय एव यशो नृणाम् ॥ ४७ ॥
 
खलाभिलाषिणी चेयं लक्ष्मीः क्षणपलायिनी ।
पादक्षतेव धत्ते न क्वचिदप्यचलं पदम् ॥ ४८ ॥
अस्याश्चापलवार्तायां दीपज्वालापि लज्जते ।
तदप्येनां वशे कर्तुं प्रभवन्ति भवादृशाः ॥ ४९ ॥
बिसतन्तुनिविष्टोऽपि श्रियमाप शतक्रतुः ।
कलिध्वस्तोऽपि कालेन प्राप्तराज्यो हि नैषवः ॥ ५० ॥
अन्ये च खलु राजन्या विषमस्खलितां श्रियम् ।
उपायैरधिगच्छन्तो बभूवुर्बहवो भुवि ॥ ५१ ॥
 
प्रतिपालय शैलान्ते कालं मा खलु साहसम् ।
 
इत्युक्त्वा चरणाम्यर्णे स पपात कृताञ्जलिः ॥ ५२ ॥
 
MAD TA
 
P32999301
 
BOLLEGE
 
03.s.
 
POONA