This page has not been fully proofread.

१०
 
अवन्तिसुन्दरीकथासारे
 
ततस्तान तितेजस्वीव्यञ्ज कस्वप्नदो 'हदाम् ।
 

 
अन्तर्वलीं वसुमतीं स शुश्राव सखीमुखात् ॥ २७ ॥
नृपनिर्वर्तित नेकञ्योमक्रीडादिदौहदा ।
आसन्नप्रसवां वेलामाजगाम क्रमेण सा ॥ २८ ॥
ततः कतिपयामात्यं प्रवृद्धानन्दमेकदा ।
भुक्त्वा स्थानगमभ्येत्य प्रतीहारी व्यजिज्ञपत् ॥ २९ ॥
 
देव ! द्वारि स्थितः कोऽपि देवदर्शनदोहली ।
मस्करीति ततो राज्ञः प्रावेशयदनुज्ञया ॥ ३० ॥
गृहीतयोगसंभारं नियमक्षामविग्रहम् ।
दृष्ट्वा मस्करिणं तस्मै वेत्रासनमदर्शयत् ॥ ३१ ॥
उपहरे सहामात्यैस्तदागमनकारणम् ।
अथापृच्छत् परिव्राजं राजा स च तमभ्यवात् ॥ ३२ ॥
 
विदितं नाम देवस्य यथाहं भवदाज्ञया ।
एवंलिङ्गी वसाम्येष मालवेवु तदीश्वरः ॥ ३३ ॥
मानसारो रणे मूर्ध्नि चरणाक्रमणेन ते ।
अमर्षादतिदुःसाधं तप्तुं व्यवसितस्तपः ॥ ३४ ॥
अवमानोष्ण (म) सन्तापादसहिष्णुश्चिरायितुम् ।
अनासन्नफलात् तस्मान्निवृत्य तपसो हि सः ॥ ३५ ॥
महाकाले महामांसविक्रयेण महेश्वरम् ।
आराधयन्नसिवरं प्रापाप्रतिहतं कचित् ॥ ३६ ॥
तत्सहायात् सहास्माभिरभियाति युयुत्सया ।
इति श्रुत्वा परं देवः प्रमेति विरराम सः ॥ ३७ ॥
आकर्ण्य तदजय्यं तमाकलय्य रिपुं नृपः ।
जीवितव्यय एवात्र श्रेयानित्यकरोन्मतिम् ॥ ३८ ॥
 
ततः सुमतिनामास्य मन्त्री वचनमब्रवीत् ।
देव ! मैवं कृथाः सन्तो न प्रशंसन्ति साहसम् ॥ ३९ ॥
 
1. दौहदात्. ग.