This page has not been fully proofread.

द्वितीयः परिच्छेदः
 
त्रिविधेनाम्बुवाद्येन क्रीडया चाष्टमार्गया ।
मधुरैः करणैस्तस्मिन् स रेमे रमणीसखः ॥ १४ ॥
क्रीडान्ते स कृतस्नानः पूजितप्रियदैवतः ।
त्रयोदशविधैः सिद्धं संस्कारैः शोधनादिभिः ॥ १५ ॥
भुक्त्वा पञ्चविधं भोज्यमात्मसात्म्यो चितं ततः ।
भुक्त्वास्थानगतः शेषं निनाय ससुहृद्दिनम् ॥ १६ ॥
ततोऽतिरागिण्यर्के च प्रतीचीमुखचुम्बिनि ।
निशामपि विशालाक्षीविधेयहृदयोऽनयत् ॥ १७ ॥
ततस्तटिलताकल्पा स्फुटत्कुटजमालिनी ।
प्रावृट् प्रादुरभूत् तस्य मयूराराविणी पुरः ॥ १८ ॥
जडिमानं जलार्द्रस्य कदम्बमुकुलस्पृशः ।
निनाय वायोर्नारीणामुरोजकलशोष्मणा ॥ १९ ॥
 
ततः कुमुदकल्हारपद्मबन्धुनभस्वति ।
काले शुककुलालीढशालिशालिनि शारदे ॥ २० ॥
मणिहर्म्यतले रम्ये विशदप्रतिमेन्दुनि ।
पाययन् परमानन्दं प्रपेदे मदिरां प्रियाम् ॥ २१ ॥
अथाशेषाम्बुजद्वेषी विसारी हिमशीकरैः ।
प्रशान्तरविसन्तापो हेमन्तः समजृम्भत ॥ २२ ॥
 
हैमनेषु दिनेष्वेवं विस्मृतान्यविभूतिषु ।
रेमे रामाविधेयात्मा निशान्ते शान्तविश्रमः ॥ २३ ॥
अथैनमतिदुःस्पर्शस्पर्शनः शिशिरागमः ।
हेमन्तातिशयो वृद्धनीहारसुहृदाययौ ॥ २४ ॥
प्रबुद्धलोधवासन्तीकुन्दप्रसवरेणुभिः ।
 
चित्रयन् दयितावक्त्रं चिकीड शिशिरागमे ॥ २५ ॥
 
इत्थं यथर्तुव्यापारैरनुभूय प्रियामिव ।
 
ऋतुलक्ष्मीमपि क्ष्मापः प्रपेदे स परां मुदम् ॥ २६ ॥
 
1. त्मो. ख. ग.
 
2
 
2.
 
धु. क.