This page has been fully proofread once and needs a second look.

प्रथमः परिच्छेदः
 
तस्यापहसितत्वष्टुस्तक्षकर्मणि शिक्षया ।
विस्मितोऽयं स्मितं कुर्वन्न<fix>र्ध्यै</fix>रर्चयति स्म तम् ॥ ५३ ॥
तस्मिन् काले जलोद्देशे ददृशे रक्तवारिजम् ।
उदयारुणमार्तण्डमण्डलाकारि वारिधेः ॥ ५४ ॥
तत्तु प्रत्यक्षमेवैषां तरङ्गप्रेरितं हरेः ।
चरणाम्बुरुहस्पर्शात् सद्यो विद्याधरोऽभवत् ॥ ५५ ॥
ततः किरीटी केयूरी कृपाणी कवची च सः ।
भूत्वा तर[^1]स्वी भूतेशं प्रणम्योदपतद्दिवम् ॥ ५६ ॥
दृष्ट्वा दण्डिनमाचष्ट स्नेहादिष्टतमः सुहृत् ।
गौरीपुत्रोऽपि नन्वेतद्विस्पष्टं दृष्टवानिति ॥ ५७ ॥
पश्यन्नाश्चर्यरूपं तं[^2] चिन्तयित्वा किमित्यसौ ।
कौतुकाकृष्टदृष्टिभ्यस्तेभ्यः संभाव्यमभ्यधात् ॥ ५८ ॥
पद्मसंबन्धिनो नूनममुना मुनिशापतः ।
पद्मीभूय प्रमुक्तेन भाव्यं दिव्येन केनचित् ॥ ५९ ॥
अथ वा देवमाराध्य प्रसादान्मुरशासनम् ।
अत्याहितामिदं वेत्तुमत्यर्थमहमुत्सहे ॥ ६० ॥
ततः स्वभवनं गत्वा दर्भशय्यामुपेयुषे ।
कथयामास तत्सर्वं भूतार्थं भूतभावनः ॥ ६१ ॥
पृथुकान्तिमवन्तिसुन्दरीति
प्रथितां विक्रमरक्त[^3]राजहंसाम् ।
सरसां रहसि प्रियामिवार्द्रा-
मुपलेभे पुरुषोत्तमप्रसादात् ॥ ६२ ॥
मुक्त्वा शय्यां मिलितपुलकव्रातमुत्थाय भूयः
प्राप्तानन्दो विरतिसमये प्राक्तनीनां क्रियाणाम् ।
स प्रारेभे सपदि सकलां स्वप्नलब्धां सुहृद्भ्यः
शुश्रूषुभ्यः पृथुमथ कथां विस्तरेणाभिधातुम् ॥ ६३ ॥
 
॥ इत्यवन्तिसुन्दरीकथासारे प्रथमः परिच्छेदः ॥
 
[^1]. प. क.
[^2]. तच्चि. क.
[^3]. त्न. ग.