This page has not been fully proofread.


 
अवन्ति सुन्दरीकथासारे
 
स तु शिल्पिवरस्तेषामाक्षिप्य स्तुतिमात्मनः ।
मूर्धन्यञ्जलिमाबञ्जन्नथ दण्डिनमभ्यधात् ॥ ३९ ॥
अस्ति विज्ञाप्यमस्माकमनुग्राह्योऽस्मि यद्यहम् ।
प्रार्थनां वितथीकर्तुं प्रभवो न भवादृशाः ॥ ४० ॥
महामलपुरे देवः स्वैरं वारिधिसन्निधौ ।
 
आस्ते मुकुन्दः सानन्दं फणीन्द्र इव मन्दिरे ॥ ४१ ॥
भन्नः केनापि तस्यासीत् कारणेना' सुरद्विषः ।
मणिबन्धे महान् बाहुः स मया सन्धितोऽधुना ॥ ४२ ॥
 
तदालोकितुमर्हन्ति भवन्तः साधु वा न वा ।
एतावता प्रयासेन प्रसादातिशयोऽस्तु नः ॥ ४३ ॥
श्रुत्वा सेनापतेः पुत्रः कला कौशलपेशलः ।
पार्श्ववर्ती परां मैत्रीं बिभ्रद्दण्डिनमभ्यधात् ॥ ४४ ॥
आर्य संभाव्यतामस्य स्थपतेः प्रणयस्त्वया ।
अपि च स्पृहणीयं ते सुहृदामपि दर्शनम् ॥ ४५ ॥
मित्राणि मातृदत्ताद्याः केरळेभ्यो द्विजोत्तमाः ।
त्वद्दर्शनार्थमायातास्तस्मिन् सन्निदधत्यमी ॥ ४६ ॥
इति श्रुत्वा ततः प्रीतस्तं विसृज्य परेऽहनि ।
सुहृद्भिः सह तं देशं ययौ तेन च शिल्पिना ॥ ४७ ॥
अथोत्तरङ्गभङ्गाली विलसद्बाहुलीलया ।
नृत्यन्तमिव गम्भीरमम्भोराशिं ददर्श सः ॥ ४८ ॥
ततः सागरकल्लोलक्षिप्तक्षोदाम्बुचुम्बिना ।
सेव्यमानः सुखामोदक्षारिणा वनवायुना ॥ ४९ ॥
तत्रोदारं मुदापश्यन्नदूरे राजमन्दिरम् ।
गच्छन् वेलापथेनाथ प्रपेदे मन्दिरं हरेः ॥ ५० ॥
 
तरङ्गबाहुसंवाह्य चरणाम्बुरुहद्वयम् ।
उदन्वता मुदाविष्टो ददर्श मुरशासनम् ॥ ५१ ॥
प्रविश्य प्रतिमाभ्यर्ण गत्वा निर्वर्णयन्नयम् ।
 
नाध्यगच्छत् सुसंहत्या सन्धानं मणिबन्धके ॥ ५२ ॥
 
न भु. क.
 
2. हाबा ग.
 
1.
 
:
 
2