This page has not been fully proofread.

प्रथमः परिच्छेदः
 
अगच्छन्नन्तिकं पित्रोः सत्रपस्तीर्थयात्रया ।
चरन् गोचरमापेदे कस्यापि शुभजन्मनः ॥ २५ ॥
स दुर्विनीतनामासीदनन्वर्थाभिधानवान् ।
तस्यान्तिके वसत्येष तेनार्येयमुदीरिता ॥ २६ ॥
इति श्रुत्वा महीपालस्तदालोकनलोलुपः ।
अनेक श्रीमुखाकृष्टमकरोदमुमात्मसात् ॥ २७ ॥
स्वनिर्विशेषैत्र शस्तमा चारैरतोषयत् ।
अभूषयच भूपालमग्राम्यैः स सुभाषितैः ॥ २८ ॥
नृपनिर्बन्धनिर्दिष्टे प्रकृष्टविभवे गृहे ।
 
वहतः पैतृकीं वृत्तिं तस्यासीत् तनयत्रयम् ॥ २९ ॥
मनोरथाह्वयस्तेषां मध्यमो वंशवर्धनः ।
ततस्तनूजाश्चत्वारः स्रष्टुर्वेदा इवाभवन् ॥ ३० ॥
श्रीवीरदत्त इत्येषामुत्तमस्तत्त्ववेदिनाम् ।
यवीयानस्य च श्लाघ्या गौरीनामाभवत् प्रिया ॥ ३१ ॥
ततः कथञ्चित् सा गौरी द्विजाधिपशिखामणेः ।
कुमारं दण्डिनामानं व्यक्तशक्तिमजीजनत् ॥ ३२ ॥
स बाल एव मात्रा च पित्रा चापि व्ययुज्यत ।
अयुज्यत गरीयस्या सरस्वत्या श्रुतेन च ॥ १३ ॥
सविकिये पुरे तस्मिन् परचक्रोपरोधतः ।
स चचार शुभाचारः सर्वामुमुदारीः ॥ ३४ ॥
अथाश्रमेष्वधीयानः शास्त्रेषु च कृतश्रमः ।
पश्यन् पुण्यान्यरण्यानि न्यवसहिवसान् बहून् ॥ ३५ ॥
अथाहूतः क्षितीशेन प्रशान्तोपद्रवे पुरे ।
 
स्व सुहृद्वन्धुमध्यस्थः स भेजे निजमास्पदम् ॥ ३६॥
एकदा वास्तुशास्त्रज्ञस्तक्षमर्मविचक्षणः ।
स्थपतिः कश्चिदभ्येत्य प्रणिपत्योपतस्थिवान् ॥ ३७ ॥
अनल्पाः कल्पिताश्चित्रा विकल्पाः शिल्पकर्मणाम् ।
अत्र त्वष्ट्रामु नैवेत्यं तत्रस्थास्तमशंसिषुः ॥ ३८ ॥